________________
५.१९०-२३८]
दः शेखरः
छन्दः
कलेकण्ठिरुतं प्रथमं द्विषकारपूर्वकं शतपत्रं कथितं मुनिना ॥ २१९ ॥ यत्षोडशाष्टचतुर्दशच्छिन्नं सिंहपदं, सप्तमे षकारे त्वमृतम् ॥ २२० ॥ चत्वारिंशन्मात्रायामेकोनायां निष्णातोऽकार्षीदतिदीर्घकम् ॥ नवसंख्यचकारैस्तान्तैर्मनुविश्रान्तं वसुविच्छिन्नं सप्तदशविरतम् ॥ २२१ ॥ मन्विभ सप्तदशविरामा द्विषकाराद्या पूर्वोक्तमपि मत्तमातङ्गिका ॥ २२२॥ चत्वारिंशन्मात्रावेकद्वयधिकौ वा पादौ मालाध्रुवके जाय ( ये ) ते ॥ २२३ ॥ तः परं सूरयो ध्रुवकाणि न योजयन्ति द्विपदीप्रकरणमिदं समाप्तम् ॥ २२४ ॥ - द्विपदीध्रुवाणां षष्टिः ।
विज्ञप्ति संविधानकमङ्गल सिंहावलोकितार्थेषु । ध्रुवकं बुधैर्विधेयं तदूर्ध्वतो द्विपदिकाः सर्वाः ॥ २२५ ॥
पादद्वयसंयुक्ता एकानेकाक्षरान्तकृतयमकाः ॥ चतुरादिकलास्त्रिंशत्प्रान्ताः सन्ति द्विपद्योऽन्याः ॥ २२६ ॥
चः स्याद् | विजया ॥ २२७ ॥
पो भवेद् । रेवका ॥ २२८ ॥
स्याद् द्विपदी - । गणैः षेण ॥ २२९ ॥
तौ भवतः । स्वरैद्विपदी ॥ २३० ॥ पगणगणौ । भवतोऽप्सराः ॥ २३३ ॥ अष्टकलाभिर् । वसुद्विपदिका ॥ २३२ ॥ चौ मकरभुजा ॥ २३३ ॥
पतविभूषिता । मदनविलसिता ॥ २३४ ॥
गण (प) गणाभ्यां । किल जंभिष्टिका ॥ २३५ ॥ पचाभ्यां लवली । द्विपदीप्रकरणम् ॥ २३६ ॥ इत्यादि न्यूाः । द्विपद्यः प्राज्ञैः ॥ २३७ ॥ यस्यासीत्प्रपितामहो यस इति श्रीलाइटस्स्वार्यक
स्तातष्ठक्कुरदुद्दकः स जननी श्रीनागदेवी स्वयम् | स श्रीमानिह राजशेखरकविः श्रीभोजदेवप्रियं
छन्दः शेखरमाईतोऽप्यरचयत्प्रीत्यै स भूयात्सताम् ॥ २३८ ॥
इति राजशेखरकृते छन्दः शेखरे शीर्षकोत्साहादिषट् चतुर्द्विपदी ध्रुवकाणि पञ्चमोध्यायः ॥
इत्यार्हतश्रीराजशेखरकृतं छन्दः शेखरं नाम छन्दःशास्त्रं परिसमाप्तमिति ॥ संवत् ११७९ ज्येष्ठशुदि ५ शुक्ले अद्येह श्रीचित्रकूट महादुर्गे प्राकृतच्छन्द लिखितमिति ॥
१ Ms. has कलकण्ठीरुतं. २ Ms. has द्विषारपूर्व. ३ Ms. has सप्तदशविरामं. ४ Ms. has ह्यतः . ५ Ms. has तदूर्ध्वः. ६ Ms. has गणवण. ७ Ms. has सचद्विपदी. ८ Ms. hias पठति भूषिता.