SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १३८ छन्दःशेखरः षगणाचे त्रयेपि गाम्ले सिं (स्वै) तन्नामानि स्त्रीलिङ्गे स्युः ॥ १९० ॥ आयाम त्रयस्त्रिंशन्मात्रौ पादौ सप्तचो (चौ) पगणान्तौ ॥ १९१ ॥ दशवसुतिथिविरतं कथयन्ति बुधाश्छन्दसि काञ्चीदामकं तत् ॥ १९२॥ मन्वष्टशम्भुविश्रान्तं निपुणैः कथितं चूडामणिमेव तत् ॥ १९३ ॥ द्वादशवसुविच्छिन्नं त्रयोदशविरति कथितं रसनादामकम् ॥ १९४ ॥ चत्वार्येतानि षगणप्रमुखानि लघुगुर्वन्तानि वदेदुपात् ॥ १९५ ॥ अष्टचगणैः सगुर्वन्तैः स्वप्नके चतुस्त्रिंशन्मात्रौ पादौ ॥ १९६ ॥ द्वितीय षौ कुमुदे भवतो दशव सुषोडशविच्छेदयुते ॥ १९७ ॥ सूर्याष्टविरतियुक्ते चगणा अष्टौ सार्धा भुजङ्गविक्रान्ते ॥ १९८ ॥ इदमपि भाराक्रान्तं दक्षैरुक्तं मुखर्तुयौं यदि षौ भवतः ॥ १९९ ॥ अध्यर्धचाष्टकं गदितं ताराध्रुवके मन्वष्टार्कविरामे ॥ २०० ॥ मनुदिग्गज सूर्य विरामं पवनध्रुवकं प्रथमषष्ठषट्कलकम् ॥ २०१ ॥ सार्धाष्टचं कलेभविरामं नवरङ्गकमिति विचक्षणैः कथितम् ॥ २०२ ॥ त्रिषकारादि चतुश्चगणाङ्कं स्थविरासनमिह षोडशे भदर्श (श) यति ॥ २०३ ॥ षोडश काष्ठागजदशविरतं सप्तचकारं ष[स]प्तमं सुभगम् ॥ २०४ ॥ कन्दोट्टमष्टचं तगणान्तं पञ्चत्रिंशन्मानं गदितं बुधैः ॥ २०५ ॥ षकारद्वयाद्यं दशवसुविरतं भ्रमरद्रुतमिदं गदितं कविना ॥ २०६ ॥ सूर्याष्टतिथिविरामं छन्दोविद्भिः प्रगदितमिदं सुरक्रीडितम् ॥ २०७ ॥ मन्वष्टनिधन विच्छिन्नं कुशलैर्गदितं जगति [हि] सिंहविक्रान्तम् ॥ २०८ ॥ षोडशविषधररुद्रविरामं कुशलैरभाषि कुङ्कुमकेशरमिदम् ॥ २०९ ॥ षट्त्रिंशन्मात्रौ पादौ नवचगणैर्बाल भुजंगम ललितं पठितौ ॥ २१० ॥ सूर्याष्टकलाविरतं चा (च) तुरोऽवादीत् त्रिषकाराय (अ) पगन्धवं भुवि ॥ २११॥ चतुर्दश संख्या विरतं दिग्गजे तथा प्राज्ञैर्गीत संगीतम् ॥ २१२ ॥ षोडशकाष्ठागजविश्रान्तं कृतमुपगीतं छन्दः शास्त्रविदग्धैः ॥ २१३ ॥ अष्टाभिश्चगणैः पगणान्तैः सप्तत्रिंशन्मात्रौ पादौ गुन्दलः ॥ २१४ ॥ धर्मकिरणविश्रान्तं दिग्[गज ] विरतं षाद्यं ज्ञेयं रथ्यावर्णकम् ॥ २१५ ॥ चतुर्दशसंख्यया छिन्ना वसुविश्रान्ता पञ्चदशबिरामा चन्चरी ॥ २१६ ॥ कलाविषधरनिधनविश्रान्तं कथितमभिनवं; सप्तमे पगणे चर्षेलम् ॥ २१७ ॥ अष्टात्रिंशन्मात्राभिः साधैर्नवचैः पादौ मन्विभस्थिति दीर्घकम् ॥ २१८ ॥ १ Ms. reads स्वपनके. २ Ms. reads मुखत्रयौ ३ Ms. has पठितौ ललितौ ४ Ms. has चचलम् [शीर्षकोत्साहादि:
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy