SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ५.४१-९२] १३३ छन्दःशेखरः कुसुमबाणमिदं स्यात् । क्रमविपर्यये ॥ ६४ ॥ ओजेऽष्ट कलाः । युजि रवयः क्रीडनकम् ॥६५॥ मालतीकुसुमं भवेत् । क्रमोत्क्रमे सति ॥ ६६ ॥ ओजेऽष्ट युजि तु । बकुलामोदस्त्रयोदश ।। ६७ ॥ नागकेसरं प्रगदितं । क्रमविपर्यये ॥ ६॥ असमेऽष्ट युजि तु । चतुर्दश मन्मथतिलकमिति ॥ ६९॥ नवचम्पकमाला भणिता । पादोत्क्रमेण ॥ ७० ॥ अयुज्यथ(ष्ट) युजि । पञ्चदश तु मालाविलसितम् ॥ ७१ ॥ चरणविपर्यासतः क्रियते । विद्याधरो हि ॥७२॥ अयुजोरष्टौ । युजोस्तु षोडश पुण्यामलका ॥ ७३ ॥ क्रमव्यत्ययेन कृतं कविना । कुब्जककुसुमम् ॥ ७४ ॥ ओजेऽष्ट युजि तु । सप्तदश नवकुसुमितपल्लवस्य ॥ ७५ ॥ पादविपर्यये कुसुमास्तरणं । पादेऽष्टकले ॥ ७६ ॥ . त्रिविधैः पदपतैद्विर्भेदांश्च । कथयाष्टादश ॥ ७७ ॥ नवौजयोर्दशाद्यास्तु युजोः सप्तदशावधि । विपर्यस्ताहिरेषापि भेदैः षोडशकैः स्थिता ॥ ७८ ॥ सुमलयमारुतो । नवायुजि युजि तु दश ॥ ७९ ॥ मधुकरीसंलापः । इति पादोत्क्रमे ॥ ८॥ नवौजे समे तु । शिवा मदनावासः ॥ ८ ॥ प्रोक्त(क्तः) सुखावासः । पादविपर्यये ॥ ८२ ॥ मसमे नव समे । द्वादश च मङ्गालिका ॥ ८३ ।। कुकुमलेखा गदिता । क्रमव्यत्यये[न] ॥ ८४ ॥ विषमे नव समे । त्रयोदश साभिसारिका ॥ ८५ ॥ कविनोक्तं कुवलयदाम । चलन(रण)व्यत्ययात् ॥ ८६ ॥ भोजे नव समे । चतुर्दश कुसुमनिरन्तरम् ।। ८७ ॥ कलहंसकं बभाण मुनिः । पादविपर्ययात् ॥ ८॥ अयुजोर्नव कलाः । युजोः पञ्चदश मदनोदकम् ॥ ८९ ॥ मदनोदकचरणव्यत्ययात् । सन्ध्यावली स्यात् ॥ ९ ॥ नवौजचरणयोः । समयोः षोडश चन्द्रोद्योतः ॥ ९१ ॥ कुञ्जरललितामचकथन्मुनिः । पादव्यत्यये ॥ ९२ ॥ १ Ms. has त्रयोदश. २ Ms. has षट्पद द्विद्विधैः.
SR No.023463
Book TitleSwayambhuchand
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages292
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy