________________
छन्दोदर्शनम
33
सिध्दो दृष्टान्तः- यथा खलु अयमग्निः भौतिकः स्वसंसृष्टं अय:पिण्डं अचेतनं अग्निमेव करोति तद्वत्, तथैव ब्रह्मणः अण्डं अण्डभूतं इदं समग्रं ब्रह्माण्ड इदं पिण्डं अस्माकं शरीरं च स्वकीयेन केवलेन चेतनेन सचेतनं करोति इति पूर्वत्र अन्वयः, तस्मात् सोऽयमग्निः प्रज्ञात्मा प्रकृष्टज्ञानपूर्णः परमः पुरुषः जातवेदा: सर्वज्ञः एव भवितुमर्हति, न तु केवलं भौतिकः, नापि भौमः, यादृश: यावान् सर्वेरस्माभिः परिदृश्यते इति ॥
COMMENTARY-SUMMARY TRANSLATION The inactive world was activated by him as he is an activiser. He made it like himself. Here is an example which can be verified: The physical fire makes an iron ball as hot as itself when it comes into contact. He activated the Anda— the egg of Brahma, and Pinda- our bodies also. He knows everything exceedingly well. He is the highest Purusha ( who fills everything ) and Jata-vedas (knower of all).
सप्तमी ऋक् । अग्निरयं में आत्मा हीदं शरीरं पार्थिव रज उतार्य इवापृतः ॥ अग्निमेवेमं मामकृणोत् स्वमहं
स इग्निोतिष्मान् पुरुषश्चितः ॥७॥ पदपाठः - अग्निः । अयं । मे। आत्मा । हि । इदं । शरीरं ।
पार्थिव । रजः। उत । अयःऽइव । आऽपृतः ॥ अनिं । एव । इमं । मां । अकृणोत् । स्वं । अहं ।
सः । इत् । अग्निः । ज्योतिष्मान् । पुरुषः । चितः ॥ This Agni is my Atmā. He pervades all atoms of the physical world, and even this body also. He made me like Agni, that is like himself. I am certainly that Agni, person full of light and all-pervasive.
अन्वयभाष्यम्। सोऽयमग्निः मे मम आत्मा आन्तरः सन् पार्थिवं रजः इदं भुवन तथा परमाणुं च अय: काष्ठ-लोष्ठादिकमपि यथा सर्वथा आपृतः व्याप्तः बहिः व्याप्नोति च, तद्वदेव इदं पार्थिव शरीरमपि अन्त: व्याप्नोति, तेन च स्वकीयं मां इमं निजोपासक आत्मसात्करणेन साक्षाद् अग्निमेव अकरोत्, तस्मात् सोऽयमहं अग्नेरेव समाश्रयणेन तदनुग्रहात् ज्योतिर्मयः पुरुषः चितः संवृत्तोऽस्मीति ॥ CD-5