SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ छन्दोदर्शनम् 29 अन्वयभाष्यम् । अत्र प्रचेतनः सोऽयमग्निरेव स्वयं चेतनात्मा पुरुषः सन् परुषु बहुषु सर्वेषु पुरुषेषु आ समन्तात् अधि सीदति प्रति तिष्ठति, सः वस्तुतः मूलतः स्वयं एक एव सन् बहुधा भावेन स्वरूपेण बहिः आविरभूत्, स: अस्माकं शरीरे अन्त: सर्वाभिः धीभिः व्याप्तः चेतनात्मस्वरूपेण, सोऽयं अन्तरात्मा स्वयं अग्निस्वरूप एव भवतीति ॥ COMMENTARY-SUMMARY TRANSLATION Here the activiser is Agni himself who is a Purusha, and is active himself. He dwells in many persons. But in fact, he is one only who manifests himself as many. He dwells within us as activiser surrounded by all means of knowledge. He is Agni himself. तृतीया ऋक् । अग्निरयं ब्रह्मा सदमृतं ब्रह्म हते ज्योतिषाऽभि विश्वाऽऽत्मना || विश्वमेतद् बृहयति प्रचेतनः सो अग्निर्वृहन् त्स्वधा प्रति चितः ॥३॥ पदपाठ :- अग्निः। अयं । ब्रह्मा । सत् । अमृत । ब्रह्म । बृहते । ज्योतिषा। आभि । विश्वऽर्था । आत्मना ।। विश्व । एतत् । बृहयति । प्रऽचेतनः। सः। अनिः । बृहन् । स्वधयो । प्रति। चितः॥ This Agni is Brahmå; he is immortal. He is Brahma because he expands on all sides and in every way with his light. He makes the world also expand. He is the activiser. Agni is great.. He is recognised as being everywhere. अन्वयभाष्यम्। अयमग्निरेव ब्रह्मा पृथिवीमधिष्ठितः बृहद्रूपेण इति श्रूयते, योऽयं ज्योतिर्मयः प्रत्यक्षो दृश्यते, “अग्निब्रह्मा नृषदने विधर्ता" (ऋ. मं. ७-७-५) इति मन्त्रवर्णात् , तस्य अग्नेब्रह्मत्वं गम्यते, सोऽयं सत् सत्स्वरूपं अमृतं सत्यं ब्रह्मैव प्रत्यक्षम्, स च विश्वथा सर्वप्रकारेण ज्योतिषा स्वेन आत्मनः ज्योतिःस्वरूपेण बृहते वर्धते स्वयमेव, सः प्रचेतनः सन् एतद् अचेतनं विश्वं जगद् बृंहयति अभिवर्धयति, स: अयं अग्निरेव बृहन् महान् आत्मा स्वधया अन्नेन धिया वाचा च प्रति चितः प्रत्यक् चितः वागादि रूपया वृत्त्या सगृहीतः सन् सर्वत्रापि अन्तः बहिश्च प्रकाशते इति ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy