________________
छन्दोदर्शनम्
पद॒पाठः— अ॒ग्निः । अ॒यं । पार्थि॑वं । रज॑ः । प्रति॑ । ऋ॒तः ।
1
सन् । इतः । ज्योति॑षा । अपः । नयते । दिवम् ॥
24
अ॒मुत॑ः । अ॒सौ । अपः । आ॒ऽनयेति । इह । भूयः ।
सः। इत् । अग्निः । आत्मा । भूमा । दिव्यः । सरस्वान् ।।
This Agni pervades the entire universe. Again from this world, as heat, he raises the water to the sky and brings down the water from there. It is only Agni ( who does this all ). He is the multitudinous ātmā ( Bhūmātma ). He is known as the preserver of wisdom.
अन्वयभाष्यम् |
सोऽयमग्निः मूलतः असौ सवितेव सन् पार्थिवं पृथिवीसम्बन्धि रजः भुवनं परमाणुरूपं च भूतं इदं शरीरं च प्रत्यृतः प्रति प्राप्तः सन्, इतः अस्मात् लोकात् पार्थिवं रजः तथा अपश्च ज्योतिर्मुखेन अमुं लोकं दिवं प्रति ऊर्ध्वं सन्नयते सम्प्रेषयति, ततश्च पुनः अमुतः अमुष्मात् लोकात् नीचैः वर्षणेन द्युलोकस्थाः ताः अपः पृथिवीं प्रति आनयति, सोऽयमग्निरेव भूमा महान् अखण्डः व्यापकः आत्मा इति ज्ञायते, तथा सरस्वान् रसवान् ज्ञानवान् इति चचितः गृहीतो ज्ञातश्च श्रुतिमुखेन, प्रत्यक्षतो वृष्ट्यादि दर्शनेन चेति ॥ अस्मिन् अर्थे दीर्घतमसः आषं मन्त्रदर्शनं भवति ॥
66
'समानमेतदुदकमुच्चैत्यवचाहभिः | भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ” इंति (ऋ. मं. १ - १६४ - ५१), "दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् । अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि " इति च (ऋ. मं. १-१६४-५२)॥
COMMENTARY-SUMMARY TRANSLATION
This Agni is originally Savita, and he pervades the whole universe and this body which is like an atom ( when compared to the universe). He transforms and takes up the dust and the water from this world into the sky and again rains them down. He is multitudinous Agni-who is infinite-the Bhümätma and possessor of all rasas (fluids) and knowledge and he has been known throughout Śruti.
The Rshi Dirghatmas also has two mantras to this effect (Rg : I-164-51 & 52 ). The same water goes up and comes down ( in the form of rain ). Parjanya — the God of Rain - Indra etc. pleases the earth, and the fires on the earth please the sky ( 51 ). I invoke the Sun-the possessor of waters-who pleases all through rains which protect life ( 52 ).