________________
442
छन्दोदर्शनम्
अथ तृतीयं वैश्वदेव्यं सूक्तम् ।
अनुवाकः ८ । सूक्तम् ३ । ऋचः १-८ ।
नमस्ते देव सवितः अष्टौ देवरातो वैश्वामित्रः, विश्वेदेवाः, जगती | सविता वायुः इन्द्रः अग्निः सोमः आपः सरस्वती ब्रह्मणस्पतिः इति प्रत्यृचं देवताः |
Now this the Vaishvadevya Sukta, Third in the Eighth Anuvaka Section VIII, Hymn 3, Riks 1- 8, VIŚVEDEVAH
The third Hymn beginning with Namaste Deva Savitaḥ' contains eight Rks, Daivarāta Vaiśvāmitra is the Rshi; Viśvedevah are the gods and the metre is Jagati.
अथ प्रथमा ऋक् ।
नम॑स्ते देव सवितर्दवस्पते
प॑सा स्व: सम॒मुष्मस्तप॑तेऽन्तः ॥
अमा॑दित्यं व्र॒तप॑ति॒ ब्रह्म॑णा धीभिस्तपसोपवसन् प्रपद्ये ॥ १ ॥
पदपाठः नम॑ः । ते । दे॒व । स॒तिः । दिवः । पते ।
—
तप॑सा । स्व१रिति स्व॑ः । सम् । अ॒मुष्मि॑न् । तप॑ते । अन्तः ॥
अमुम् । आदि॒त्यम् । व्रतऽप॑तिम् । ब्रह्म॑णा ।
भः । तप॑सा । उप । वसन् । प्र । पद्ये ॥
Oh god Savità, lord of the heavens, salutations to you who are blazing with tapas in the sky. I attain this Aditya who fulfils all vows. I attain him by staying near him and with mantras, intellect and austerities.
अन्वयभाष्यम् ।
हे सवितः ! विश्वस्य प्रसवितः ! दिवस्पते ! स्वर्लोकाधिपते ! अमुष्मन् परमे व्योमनि स्वः - अन्तः दिव्ये मण्डले तपसा अनवरतं तपसा तेजसा तपते तपस्यते ते तुभ्यं नमः, अमुं दिव्यं व्रतपतिं सर्वेषां व्रतानामधिपतिं सर्वकर्मसाक्षिण आदित्यं अदितिपुत्रं ब्रह्मणा मन्त्रेण धीभिः सवितृप्रेरितैः बुद्ध्यादिभिः सर्वैरान्तर्यैः करणैः तद्धयोगेन उपवसन् आत्मन: समीपे अन्तः निवसन्, तेन उपवासात्मकेन विषयाणां अनशनरूपेण एतेषु बाह्येषु विषयेषु प्रवृत्त्या तत्सेवनादिरहितेन निर्विषयात्मकेन केवलेन विमर्शरूपेण तपसा तत्तपोरूपादिव्रतरक्षण