SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ 428 छन्दोदर्शनम दुग्धम्” (ऐ. ब्रा.) इति ब्राह्मणम् । तदिदं पेयं पानयोग्यं पयः सौम्यं सोमपानसमानं आनन्दसत्त्वमयं सौमनस्यं च अस्तु, वत्सस्य मम जीवनायेति || COMMENTARY-SUMMARY TRANSLATION Oh Soma, this lukewarm freshly drawn milk from the cow is sweet as honey and is for you. Therefore, such milk becomes associated with the god Soma. Cf. " Fresh-drawn milk gets associated with god Soma" ( Aita. Bra.). This is so drinkable. May it become equal to the soma drink full of the essence of delight and that which pleases the mind. May it be available to me for life, to me, who is your son. सप्तमी ऋक् । इमं मा वत्सं धेनवः सूप तिष्ठत मातरः । कामं दुहाना अमृतं पयः सन्धत्त सुवीर्यम् ॥ ७ ॥ पदपाठः - इमम् । मा । वत्सम् । धेनवः । सु । उपऽतिष्ठत । मातरः । कामम् । दुहानाः । अमृतम् । पर्यः । सम् । धत्त । सुऽवीर्यम् ॥ Oh motherly milch cows, always stand by me who are your son, and give abundant milk which is energising and is like nectar. अन्वयभाष्यम्। हे धेनवः ! मातरः! भवत्यः अमृतं अमृतसधर्मकं पयः कामं यथेच्छं पर्याप्त मनोरथं च दुहाना: सत्यः मां इमं धेनूपासकं सत्त्वशुद्धिसाधनतत्परं वत्सं सुष्ठु उपतिष्ठत सम्यक् सर्वदा उपतिष्ठध्वम्, तथा सुवीर्यं ब्रह्मवर्चसकरं वीर्यवत्तरं पय: सन्धत्तेति, अनया ऋषिः गवां सान्निध्य अभिवृद्धि दुग्धसमृद्धिं च याचते, गवामेव तासां अमृतरसनिधिरूपत्वात्, “अमृतस्य नाभिः" (ऋ. मं. ८-१०१-१४) इति तदनुश्रवणम्, “दुहामश्विभ्यां पयो अध्नेयं सा वर्धतां महते सौभगाय" (ऋ. मं. १-१६४-२७) इति, “ उप व्हये सुदुधां धेनुमेतां सुहस्तो गो धुगुत दोहदेनाम् " (ऋ. मं. १-१६४-२६) इति च दुग्धसन्दोहनार्थं धेनोरुपाह्वानमनुश्रूयते ॥ तथैव यजुर्मन्त्रवर्णोऽपि भवति अस्मिन्नर्थे प्रमाणपदम् यज्ञादिसिद्धिप्रदम्, “ आप्यायध्वमघ्न्या देवभागम्." (तै. सं. १-१-१) "आप्यायध्वमघ्न्या इन्द्राय भागम् ” ( शु. य. सं. १-१ - ) “ध्रवा अस्मिन् गोपतौ स्यात बह्वीः" ( शु. कृ. य. १-१-१) इति च गोसमृद्धिप्रार्थना ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy