________________
422
छन्दोदर्शनम्_
अन्वयभाष्यम् ।
ताः एताः आपः देव्यः मम जीवसे चिरजीवनाय हेतवे ब्रह्मणे ब्रह्मवर्चसाय तपसे तपोयोगादिसाधनाचरणाय सूर्यं सर्वान्तर्यामिणं स्थावरजङ्गमात्मानं दृशे द्रष्टुं च शिवाः कल्याणकारिण्यो भवन्तु॥ अयमहं श्रद्धया सहितः सद्भावनया नियतः सन् अद्भिः जलरसैः उपवसन् जलमात्राशनेन तदुपवासव्रतं आचरन् तपसा तेन अनशनरूपेण व्रतेन ताः दिव्या: अब्देवताः शरणं सम्प्रपद्ये सर्वात्मना प्राप्नोमीति || अत्र " तप इति तपो नानशनात् परं यद्धि परं तद् दुर्धर्षं तद्दुराधर्षं तस्मात् तपसि रमन्ते " ( ना. उ. २१ - २ ) इति औपनिषदं ब्राह्मणानुवचनमेव प्रमाणम् ॥
COMMENTARY-SUMMARY TRANSLATION
May those Water-deities be gracious to me and bless me with a long life for the glory of Brahma and for the power to perform Tapas, to practise yoga and to use other means of purification, so that I may be able to realise the Sun, the inner controller of all and the very soul of all immobile and mobile things on earth. Living on waters only and observing the fast, I worship those Water-deities. Thereby I attain the favour of the goddess of Waters. Cf. “ There is no Tapas that excels non-eating. Because that which is transcendent cannot be attained or can be attained only with difficulty” (Nar. Up. 21-2 ).
-
सप्तमी ऋक् ।
नमस्ते गङ्गे यमुने सरस्वति
समाप मातरो मृळयेत मह्य॑म् ॥
विश्वं ममैनौ वहत ज्योति॑षाऽऽत्मन् द॒शय॑त॒ ज्योति॒र्विश्वस्य द॒र्शय॑त् ॥ ७ ॥
पदपाठः नः । ते । गङ्गे । यमुने । सरस्वति ।
सम् । आः । मातरः । मृळयेत । मह्य॑म् ॥ विश्वम् । मर्म । एनः । हत । ज्योतिषा । आत्मन् । दर्शय॑त । ज्योति॑ः । विश्व॑स्य । दर्शय॑त् ॥