SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 416 छन्दोदर्शनम ___ अथ चतुर्थ अपसूक्तम् । अनुवाकः ७ । सूक्तम् ४ । ऋचः १-७॥ विद्यतोऽमूं ज्योतिषः सप्त, देवरातो वैश्वामित्रः, आपः, त्रिष्टुप | अन्त्यास्तिस्रो जगत्यः॥ Now this the Apsukta, Fourth in the Seventh Anuvaka Section VII , Hymn 4, Riks 1-7- AP This Hymn beginning with 'Vidyutomum jyotishah' contains seven Rks. Daivarāta Vaišvamitra is the Rshi. Waters are the gods, and the metre is Trishtup, and the last three are in Jagati. अथ प्रथमा ऋक् । विद्यतोऽमूं ज्योतिषः प्रजातां दिव्यां मातरमी सहसा स्व: स्वरन्तीम् || रुद्राी स्वधुनी तामिमां गङ्गा मपो दे॒वीः शरणं प्रति प्रपद्ये ॥ १ ॥ पदपाठः - विऽद्युतः । अमूम् । ज्योतिषः । प्रऽजाताम् । दिव्याम् । मातरम् । ईम् इति । सहसा । स्वरिति स्वः । स्वरन्तीम् ।। रुद्राणीम् । स्वाऽधुनीम् । ताम् । इमाम् । गङ्गाम् । अपः । देवीः । शरणम् । प्रति। प्र । पद्ये ॥ She (Ganges) is born of the light of lightning; she is the heavenly mother. Soft is the sound as she moves. She is the consort of Rudra and the sky is full of her sound. I take refuge in Gangā who is the goddess of Waters. अन्वयभाष्यम् । विद्युतः विद्युतः अधि-ज्योतिषः अधिदैवतसत्त्वात् सम्प्रजातां प्रत्यक्षेण प्रादुर्भूतां, सहसा बलेन स्वः दिवि ई इति सूक्ष्मनिनदरूपेण स्वरन्ती शब्दायमानां मातरं विश्वमातृस्वरूपां विश्वोत्पादनसत्त्वां मातृवत् स्वरसेन विश्वसञ्जीवनपरां ई एनां स्वधुनी आकाशधमनरूपां तेजोध्वनिस्वरूपां च रुद्राणी रुद्रेण सरवेण वैद्युतेन ज्योतिषा संहितां स्वरससत्त्वात्मिकां अत एव रुद्रपत्नी इति वेदे विश्रुतां तां परोक्षसिद्धां दिव्यां व्योमसंस्थां इमां भुवि प्रत्यक्षं प्रवहन्ती गङ्गां अपः देवी: अब्देवतात्मिकां आत्मपावनार्थं शरणं सम्प्रपद्ये अनन्यशरण्यां सम्भावयामीति ॥
SR No.023462
Book TitleChandodarshanam
Original Sutra AuthorN/A
AuthorDaivarata Rshi, Ganpatimuni
PublisherBharatiya Vidya Bhavan
Publication Year1968
Total Pages524
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy