________________
छन्दोदर्शनम
383
असुराः रक्षा सीत्येके, चत्वारो वर्णाः निषाद: पञ्चमः इत्यौपमन्यवः" (नि. ३-८-१) इति ॥ यश्च-तानिमान् पञ्चजनान् पुनः स्वस्मात् आविर्भूतान् प्रतिविष्ट: चेतनात्मस्वरूपेण आविष्टः सन् पाञ्चजन्यः इति एतन्नाम्ना स्वरूपेण च बभूव स्वतःसिद्धः प्रसिद्धि जगौ, अत एव यस्य पुरुषस्य त इमे पञ्चजना एव पञ्च अगानि अवयवात्मकानि अधिप्रजतत्त्वेन प्रतिक्लप्तानि भवन्ति, तं तादृशं पुरुषं धीभिः तदनुगताभिः तथा पञ्चतत्त्व विशिष्टाभिः तपसा तद्योगेन पाञ्चजन्यतत्त्वपूर्णस्य पुरुषस्य विमर्शन प्रपद्ये अपरोक्षत: प्राप्नोमीति || __अत्र तदेतत् पुरुषशब्दार्थनिर्वचने प्रधानं लिगम, – “तान् प्रतिविष्टः पाञ्चजन्यो बभूव" इति, एतस्मिन्नर्थ सुस्पष्टार्थो मन्त्रवर्णो भवति, “पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत्” (बृ. उ. २-५-१८) इति, उदाहृतोऽयं मधुविद्यायाम् || तस्येदं औपनिषदं ब्राह्मणानुवचनम,– “स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नैनेन किञ्चनानावृतम्, नैनेन किञ्चनानावृतम् ” इति ॥
"वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम् " (ना. उ. १०.४) इति ॥
तदेतदेव तस्य पुरुषस्य पुरुषत्वम् यत् स्वतः पूर्णत्वम्, सर्वतः पूर्णत्वं चेति, तत्र उदाहृत एव ऋङ्मन्त्रवर्णः, “गोषा इन्दो नृषा अस्य श्वसा वाजसा उत | आत्मा यज्ञस्य पूर्व्य:"(ऋ. मं. ९-२ १०) इति || ततोऽपि विशिष्टार्थक ऋमन्त्रवर्णान्तरं सुप्रसिद्धम्"हसः शुचिषद् वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् | नृषद् वरसद् ऋतसद् व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम्" (ऋ. मं. ४-४०-५) इति ॥
तस्य निर्वचनोपबृंहितं ब्राह्मणानुवचनम्- “वरसदित्येष वै वरसद् वरं वा एतत् सद्मनां यस्मिन् एष आसन्नस्तपति" (ऐ.ब्रा.) इति ॥ अत्र “आसीदति" इत्यर्थः शुचिषत् इत्यादिषु सर्वत्रापि सिद्धः, तेन पुरुषु बहुषु आसन्नः पुरुषः इत्यर्थ: सम्पद्यते ॥ अत्र त एते पञ्चजनाः पञ्चभिर्जायन्ते पञ्चभ्यो जन्यन्ते इति अर्थात् पुरुषु प्रवेशात् प्रादुर्भवन्ति इति च सङ्केतोदिते तात्त्विकेऽर्थ किञ्चिद् वैदिकं रहस्यं प्रतीयते, तस्य परमपुरुषस्य प्रज्ञानादिसत्त्वेभ्यः वाक्-प्राण-मन:-श्रोत्र-नेत्रप्रभृतिभ्य: दिव्येभ्यः करणेभ्यः प्रादुभूतानां अग्नि-वायु-सोम-दिक्-सूर्य-प्रभृतीनां पुरुषसत्त्वानां प्रधानानां पञ्चानां देवतात्मनां सशरीरेषु बहुषु पुरुषेषु प्रवेशात् पञ्चजनसञ्ज्ञा मनुष्याणां तात्त्विकार्थप्रयुक्ता इति वैदिकं मन्त्रहृदयम्, “चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत | मुखादिन्द्रश्चाग्निश्च प्राणाद् वायुरजायत" (ऋ. मं. १०-९०-१३) “दिशः श्रोत्रात्" (क्र.मं. १०-९००४ ) इति च ।) एवं पञ्चानां पुरुषावयवानां निर्देशात् पञ्चभिश्च तदैवतैः विशिष्टाः तेभ्यः प्रजाताश्च “पञ्चजना:" वेदसङ्केतः तदाषयदर्शनाङ्कितः, तत्र क्रमेण मनःप्रभृतीनां तेषां " सोमः सूर्यः (इन्द्रः-अग्निः ) इन्द्राग्नी वायुः दिशः” इति ते पञ्चदेवतात्मानः प्रसिद्धाः,