________________
373
छन्दोदर्शनम्
अन्वयभाष्यम्। यः पुरुषः विश्वेषां पुरुषाणां देव-मानवादीनां सर्वेषां प्राणिनां परिणेता सञ्चालयिता सामान्यतः अनुग्रहीता स्वचैतन्यसत्त्वप्रदानेन इति भावः, यः पुरोहितः अग्रगामी मार्गदर्शी च भवन् सदसद्विवेकशालिना मानवानां प्रचेतसा वारुणेन सन्मनःसत्त्वेन अन्तःप्रेरितेन सदसद्विवेकतः सुपथा सन्मार्गेण ऋजुतरेण निष्कण्टकेन परिणेता प्रणयिता परितः गमयिता स्वमभीष्टं परमं पदं प्रति प्रापयिता भवतीति तदर्थः । “ परिणेता मतीनां विश्वदेवो अदाभ्यः", “सोमः पुनानश्चम्योर्विशद्धरिः" (ऋ. मं. ९-१०३-४) इति तदनुश्रवणम्, तथा “ अग्नेनय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ” (क.मं. ११८९-१) इति || "ऋजुनीती नो वरुणो मित्रो नयतु विद्वान्" (ऋ. मं. १-९०-१) इति च ॥ इत्यादिभि: मन्त्रैः सन्मागण ऋजुमागंण च सा देवतात्मैव प्रार्थ्यते ॥ अत एव यः सन्मार्गदर्शी सर्वषामपि गुरुः, तथा सवषां गुरूणामपि गुरुतमः श्रेष्ठतमः अग्रपूज्यो भवति इति प्राज्ञैरभिमन्यते, एतेन सर्वेषामपि वेदानां विद्यानामपि सर्वासां संविदां च अमृतत्वान्तानां अधिपतित्वमेव तद्रुत्वस्य परमं लक्षणं भवितुमर्हतीति प्रतिज्ञायते, तद्यथा सर्ववेदाधिपतित्वम्--"गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पते" (ऋ. मं. २-२३-१) इति ॥ तथा भगवतो रुद्रस्य सर्वविद्याधीश्वरत्वम्- “ईशानः सर्व विद्यानामीश्वरः सर्वभूतानां ब्रह्माधिपतिब्रह्मणोऽधिप्रतिब्रह्मा शिवो मे अस्तु सदा शिवोम" (ना. उ. १७-५) इति || अमृतत्वाधिपतित्वं परमपुरुषस्य अनुश्रूयते- “उतामृतत्वस्येशानः" (ऋ. मं. १०-९०.२) इति, " उतामृतत्वस्येश्वरः" (अथर्व सं. १९) इति च । तस्यैव पुरुषस्य तस्मादेवकारणात् परमगुरुत्वं विश्वस्यापि जगतः इति उपदिष्टम् | “क्लेशकमविपाकाशयैरपरामृष्टः पुरुषविशेषः ईश्वरः। स एष पूर्वेषामपि गुरुः कालेनानवच्छेदात्” (यो. सू. १-२४-२५) इति ॥ अतः एव यः गरीयान् परम: पूज्यः सर्वहिततमः, ब्रह्मविद्यादिप्रदानेन सर्वानुग्राहकत्वात् , “ उत्पादक-ब्रह्मदात्रोः गरीयान् ब्रह्मदः पिता” (मनु. स्मृ. २) इति || " त्वमेव पूज्यश्च गुरुगरीयान् ” (गी. ११) इति च तदनुम्मरणात् ॥ अत एव यः प्रत्यक्षसिद्धो गुरुस्वरूपः इत्युक्तं भवति ॥ __ " गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ इति च सुप्रसिद्ध वचनं सर्वेषां विदुषामभिमतमेव, अस्मिन् अर्थे औपनिषदं दर्शनमपि भवति, “ तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमार" (छां. उ. ७-२६-२) इति || “ त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति" (प्र. उ. ६-८ ) इति च तदनुश्रवणम् ॥ तं तादृशं परमं पुरुषं धीभिः तादृशगुरु