________________
छन्दोदर्शनम्
the moon and the sun are the eyes, the directions are the ears; the Vedas are his speech, the air is his vital breath and this universe is his heart; the earth is his feet. He is certainly the inner soul, the Purusha of all beings (Mundaka Up. II-1-4 ).
चतुर्दशी ऋक् I
-
यस्य॑न॒न्तानि॒ धाम॑नि॒ शरीराणि
शी॑र्षाण॒ चक्षूषि मुर्खानि पू॒र्णानं ॥
श्रोत्राणि नासा रसनाश्च वक्त्राणि
तप॑सा धी॒भिः पुरु॑षं॒ तं प्रपद्ये ॥ १४ ॥
पदपाठः यस्य । अनन्तानि | धामानि । शरीराणि ।
शीर्षाणि॑ । चक्षूंषि । मुखानि । पूर्णानि ॥ श्रोत्राणि । नासाः । रसनाः । च । वक्त्राणि ।
तसा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥
363
Endless are his embodiments, and indeed infinite are his symbols. His heads, eyes and faces are all endless and perfect. So are his ears, noses, tongues and mouths. I attain the Purusha, by means of meditation and thought.
अन्वयभाष्यम् ।
यस्य पुरुषस्य शरीराणि प्रतीकरूपाणि प्रतिष्ठाधिकरणानि सञ्ज्ञा सञ्ज्ञात्मक ि साङ्केतिकानि भवन्ति, तानि च अनन्तानि अन्त - क्लृप्ति - मर्यादा - सख्यादिरहितानि, शीर्षाणि शिरासि शिरः स्थानीयानि उच्चतमानि तात्त्विकानि, दिव्यानि तत्रापि वैशिष्टयेन अधिदैवतसत्त्वप्रमुख्यानि ज्योतीरसा दिस्वरूपाणि, चक्षूषि दृक्सत्त्वानि ज्योतिर्दर्शनादिक्रियाकारकाणि ज्ञानप्रधानानि, मुखानि मुखरूपाणि प्रमुख्यानि, पूर्णा पूर्णानि अन्यून सत्त्वानि सन्ति, तथा श्रोत्राणि श्रवणसत्त्वानि दिग्-व्योमात्मकानि स्वर - नाद - शब्दादिश्रवणज्ञानादिकरणानि च, नासा- रसनाप्रभृतीनि गन्धाघ्राणन - रसाम्वादनादिविषयसत्त्वविशिष्टानि वक्त्राणि श्वासोच्छ्वास-वाक्-स्वरणोच्चारणादिक्रिया सत्त्वयुक्तानि प्रसिद्धान्येव, एवं सर्वाण्यपि शीर्षण्यानि अङ्गानि तदङ्गसत्त्वानि च यस्य पूर्णानि अनन्तान्येव भवन्ति, तं तादृशं परमं पुरुषं तपसा तदनुरूपेण साधनेन तेषामेतेषां सर्वेषां शीर्षण्यानां धीन्द्रियाणां योगेन अन्तर्विमन संयमेन च प्रपद्ये अपरोक्षत: दिव्यभावेन साक्षात्करोमीति ॥