________________
361
छन्दोदर्शनम्
त्रयोदशी ऋक् । यस्य नामान्युत रूपाण्यनन्तान वीर्याणि वा कर्माणि कृतान्यकृतानि ॥ अङ्गानि यस्य चिद् भूतानि विश्वानि
तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १३॥ पदपाठः – यस्य । नामानि । उत । रूपाणि । अनन्तानि ।
वीर्याणि । वा । कौणि । कृतानि । अकृतानि ॥ अङ्गानि । यस्य । चित् । भूतानि । विश्वानि । तप॑सा । धीभिः । पुरुषम् । तम् । प्र । पद्ये ॥
His, that is the Purusha's, names and forms are infinite. Indeed, his prowess and works, executed and unexecuted are also endless. Indeed, all the beings in the universe are his limbs. I attain that Purusha by meditation and intense thought.
अन्वयभाष्यम् । यस्य परमस्य पुरुषस्य तस्य नामानि अभिधानानि तद्गणबोधकानि विशेषणपदानि सङ्केतरूपाणि च बहूनि बहुधा व्याप्तानि अनन्तानि असङ्ख्यानि अन्तरहितानि नित्यान्येव भवन्तीति यावत, विनष्टेऽपि रूपे नामशेषत्वाभ्युपगमात् ॥ तथा यावन्ति यादृशानि नामानि सन्ति स्युर्वा तावन्ति तादृशान्येव रूपाण्यपि भवन्ति भवेयुश्चेति निर्विवादम्, तान्यपि अनन्तान्येव सन्ति तद्गण-धर्म-शक्तिविशेषादिविशेषणसत्त्वानि, “रूपं रूपं प्रतिरूपो बभूव०" (ऋ. मं. ६-४०.१७) इति तदनुश्रवणम् || " अग्निर्यथैको भुवनं प्रविष्ट रूपं रूपं प्रतिरूपो बभूव ॥ एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च" (कठाप. २-९) इति च ॥ “इन्द्रं मित्र वरुणमग्निम हुरथो दिव्यः स सुपर्णोगरुत्मान | एकं सद् विप्रा बहुधा वदन्ति अग्निं यमं मातरिश्वानमाहुः" (ऋ. मं. १-१६४-४६) इति ॥ “सुपर्णं विप्राः कवयो वचोभिरेक सन्तं बहुधा कल्पन्ति " (ऋ. मं. १०-११४-५) इति च ॥ एवमादीनि वेदमन्त्रवचनानि तस्य पुरुषस्य आत्मन: नामरूपयोः अनन्तत्वावबोधकानि भवन्ति, यस्य च वीर्याणि सामर्थ्यानि तथा स्वतन्त्रसामर्थ्यन समाचरितानि कर्माणि कृतानि इत: पूर्वमेव निर्वर्तितानि, तथा अकृतानि उत्तरत्र कर्तव्यानि क्रियमाणानि च कर्माणि, अकृतकानि अकृत्रिमाणि तस्मिन्नेव निसर्गतः स्वभावतश्च नित्यसिद्धानि चेतनादीनि अनन्तान्येव सन्ति | अस्मिन् अथ च ऋङ्मन्त्रवर्णोऽपि प्रसिद्धः CD-46