________________
360
छन्दोदर्शनम
His, that is the Purusha's Vedas, knowledge and speeches, are infinite. His infinite powers are eternal. His endless works and desires are infallible. His manifestations are unimaginable. His movements are miraculous. I attain that Purusha by means of meditation and intense thought.
अन्वयभाष्यम्। यस्य पुरुषस्य परमस्य आत्मनः वेदा: ज्ञानसत्त्वा: संविद: अन्तरनुभावात्मिका विज्ञानरूपाः वाच: वाजकसत्त्वाः सर्वविद्यात्मकाः ते वेदाः ऋग्वेदादयः अनन्ताः अस
ङ्ख्याता: अन्तरहिताः नित्यसिद्धाश्च सन्ति इति लोके वेदे च प्रसिद्धाः, “अनन्ता वै वेदाः" इति तदनुश्रवणम्, यस्य शक्तयः संविदिच्छा क्रियाचेतनात्मिकाः नित्या: नित्यसिद्धाः, तथा कृतयः व्यस्त-समस्तरूपाः क्रिया: विश्वसृष्टि-स्थिति-प्रतिसंहृतिप्रभृतयः कामाः इच्छासङ्कल्पादयः स्वतन्त्राः अनन्ता: सत्यः सत्याः सत्यात्मस्वरूपाः भवन्तीति च सुप्रसिद्धम् , तथा यस्य रचनाः आविर्भाव-तिरोभावादिविलासविरचिताः स्थिति-गति-मति-कृति-विभूतिप्रकृतिप्रभृतयः ताः सर्वा अपि अचिन्त्याः कल्पना-भावना-चिन्तनादिवृत्त्यतीताः भवति । अत एव यस्य गतय: व्याप्ति-विरति-सृष्टि-स्थिति-प्रत्युपसंहृतिप्रभृतयः अनन्तविषयविशेषसङ्कलिताः चित्राः विचित्रा: लौकिकेभ्यः सर्वेभ्योऽपि विषयेभ्यः वस्तुविशेषेभ्यश्च विलक्षणाः तथा चित्राः चयनीयाः सर्वैरपि सम्पाद्याः सङ्ग्राह्याश्च भवन्ति । तं तादृशं परमं पुरुषं तपसा तादृशेनैव दिव्येन ज्ञानचैतन्यभावादिपरितप्तेन विशुद्धसत्त्वेन केवलेन निर्विषयेन विमर्शन स्वभावात्मकेन तथा धीभिः व्यापकदिव्यभावादिनियन्त्रिताभिः सबाह्याभ्यन्तरसमभाववृत्तिकाभिः प्रपद्ये तं पुरुषं अपरोक्षतः प्राप्नोमि साक्षात्करोमि इति ॥
COMMENTARY-SUMMARY TRANSLATION The supreme Purusha is Atmā. His Vedas are the essence of knowledge; his own soul-experiences, his powers of expression in words and the Rgveda etc., his variety of learning, all these are numberless. That they are endless and eternal is well known in the world. Cf. “Infinite indeed, are the Vedas.” His powers of knowledge, his desire, his functions and energy, are eternal and truthful. It is welknown that his actions and his doings are independent and infinite and his desires, his will are independent and numberless. His playful manifestations in the form of appearance, disappearance etc., sthiti, that is being, gati, that is becoming, mati, that is understanding, krti, that is working, vibhati, that is pervasion, prakrti, that is nature etc. are all beyond imagination, beyond thought, beyond meditation etc. Exactly therefore, his movements like vyāpti-- pervasion, viraticessation, srsti- creation, sthiti- existence, upasamhrti-dissolution etc. are all miraculous. They are all unique and are different from any of the objects and things of this world.