________________
358
छन्दोदर्शनम
अत्र यज्ञपुरुषात् छन्दसामाविर्भावे ऋमन्त्रवर्णः - " तस्माद् यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे | छन्दासि जज्ञिरे तस्माद् यजुस्तस्मादजायत" (ऋ. मं. १०-९०-८) इति ॥ अस्मिन् अर्थे औपनिषदं ब्राह्मणानुवचनमपि प्रसिद्धम् |-" अस्य महतो भूतस्य निःश्वसितमेतद् यदृग्वेदो यजुवंद: सामवेदोऽथर्ववेद " (बृ. उ. २-४-१०) इति ।
तदेतदपि मीमांसितं निर्णीतं च ब्रह्ममीमांसायाम् , “शास्त्रयोनित्वात् " (ब्र. सू. १-१-३) इति ॥ तत्रेदं शारीरकं भाष्यम् – “ महतः ऋग्वेदादेः शास्त्रस्य अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत् सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः कारणं ब्रह्म | न हि ईदृशस्य शास्त्रस्य ऋग्वेदादिलक्षणस्य सर्वज्ञगुणान्वितस्य सर्वज्ञादन्यतः सम्भवोऽस्ति, यद् यद् विस्तरार्थं शास्त्रं यस्मात् पुरुषविशेषात् सम्भवति, यथा व्याकरणादि पाणिन्यादेज्ञयैकदेशार्थमपि स ततोऽप्यधिकतरविज्ञानः इति प्रसिद्धं लोके, किमु वक्तव्यम्-अनेकशाखाभेदभिन्नस्य देवतियङ्मनुष्यवर्णाश्रमादिप्रविभागहेतोः ऋग्वेदााख्यस्य अप्रयत्नेनैव लीलान्यायेन पुरुषनिःश्वासवद् यस्मात् महतो भूताद् यानेः सम्भवः इति, ‘अस्य महतो भूतस्य निःश्वसितमेतद् यद् ऋग्वेदो यजुर्वेद: सामवेदोऽथर्ववेदः । इत्यादिश्रुतेः। तस्य महतो भूतस्य सर्वज्ञत्वं सर्वशक्तिमत्त्वं चेति | अथवा यथोक्तमृग्वेदादिशास्त्रं योनिः कारणं प्रमाणं तस्य ब्रह्मणो यथावत् स्वरूपाधिगमे, शास्त्रादेव प्रमाणाज्जगतो जन्मादिकारणं ब्रह्म अधिगम्यते इत्यभिप्रायः” अस्य मूलभूतः याजुषो मन्त्रवर्णः -“ यच्छन्दसामृषभो विश्वरूपः । छन्दोभ्योऽध्यमृतात् सम्बभूव | स मेन्द्रो मेधया स्पृणोतु | अमृतस्यदेव धारणो भूयासम् ” (शि. उ. ४-१) इति || तथा तस्मादेव पुरुषात् छन्दोमयवाङ्मुखात् विश्वस्यास्य जगतः आविर्भावोऽपि अनुश्रूयते, तथा च मन्त्रवर्णः कुत्साषयः,-" स प्रत्नथा सहसा जायमान: सद्यः काव्यानि बळधत्त विश्वा | आपश्च मित्रं धिषणः च साधन् देवा अग्निं धारयन् द्रविणोदाम्" (ऋ. मं. १-९६-१) इति ॥ " स पूर्वया निविदा कव्यताऽयोरिमाः प्रजा अजनयन् मनूनाम् ! विवस्वता चक्षसा द्यामपश्च" (ऋ. मं १-९६-२) इति च ॥ एतेन छन्दस्वत्या वाचा तथा वैदिकेभ्यः शब्देभ्यः एव जगत्सृष्टिर्बभूवेति अर्थः सम्पद्यते ॥ तथा च मन्त्रवर्णः"एते असृग्रमिन्दवस्तिर: पवित्रमाशवः। विश्वान्यभिसौभगा" (ऋ. मं. ९-६२-१) इति | तस्येदं ब्राह्मणम् – “एते इति वै देवानसृजत, असृग्रमिति" ||
तदेतदपि मीमांसितं ब्रह्ममीमांसायाम, “शब्द इति चेन् नातः प्रभवात् प्रत्यक्षानुमानाभ्याम् " (ब्र. सू. १-३-२८) “अत एव च नित्यत्वम" (ब्र. सू. १-३-२९) इति च ॥ इत्यादिकमनुसन्धेयम् || .
COMMENTARY-SUMMARY TRANSLATION
That supreme urusha, by his Tapas in the form of sacrifice known as Sarvamedha, breathed out vital air which contains the very essence of Indra and Agni. And by means of that breath, he bore in himself, the Řks in the