________________
356
छन्दोदर्शनम्
sacrificer, and he is one who sacrificed all the beings" ( Rg. X-81-1). Yaska in his Nirukta, elaborates the same and says, “There is a story in this connection. Viśvakarma Bhauvana offered all the beings as oblation. Finally he offered himself” (Nirukta X-26-3). For further explanation, Cf. "Oh Visvakarma, in order to grow by means of oblations, sacrifice the earth and the sky" (Rg. X-81-6).
दशमी ऋक् । सर्वहुतश्चिद् यज्ञात् पुरुषस्तपसः सहसाऽऽविबभूव विश्वाऽऽत्मना ॥ य आ विवेश चितिभिर्विश्वमेतत्
तपसा धीभिः पुरुषं तं प्रपद्ये ॥ १० ॥ पदपाठः - सर्वऽहुतः । चित् । यज्ञात् । पुरुषः । तपसः ।
सहसा । आविः । बभूव । विश्वऽथा । आत्मना ॥ यः। आऽविवेश । चितिऽभिः । विश्वम् । एतत् ।
तप॑सा । धीभिः । पुरुषम् । तम् । प्र। पद्ये ॥ The Purusha, by concentrated effort or penance in the form of the sacrifice known as Sarvahuta ( in which everything is sacrificed ) manifested himself as the universe by means of his own energy. He entered this universe by means of his powers of intelligence. I attain that Purusha by meditation and by intense thought.
अन्वयभाष्यम्। यः सः पुरुषः तस्मादेव सर्वहुतः सर्वस्वहवनरूपाद् यज्ञात् यज्ञरूपात् तपस: नाममात्रावशेषात् चैतन्यसत्त्वात् प्रज्ञानज्योतिष: तथा सहसा आत्मबलेन संवित्-क्रियाशक्ति समन्वितेन चिदात्मपत्त्वेन सह योगशक्तेः अकस्मात् अन्यनिरपेक्षेण स्वयमेव आविर्बभूव, तच्च विश्वथा वैश्वरूप्येण सत्त्वेन आत्मना चैतन्यस्वरूपेण प्रादुर्बभूव,- विश्वविभूतिपूर्णेन योगेन तथा तद्योगशक्त्या प्राकाश्य प्राप इति यावत् ||
___यश्च पुनः चित्तिभिः चेतनाशक्तिभिः एतद् प्रत्यक्षं आत्मनः सकाशात् आविर्भूतं विश्व आविवेश, तेन च विश्वं इदं आत्मसाञ्चकार स्वीयमेव सम्भावयामास, तं तादृशं पुरुषं परमं तपसा तादृशेनैव यज्ञरूपेण साधनेन धीभिः तद्भावसम्पन्नाभि: प्रत्यक्सत्त्ववृत्तिसिद्धाभिः प्रपद्ये अपरोक्षतः प्राप्नोमीति ।