________________
361
छन्दोदर्शनम् "बाहुवोर्बलम्" (ना. उ. १६) इति बाहोलकर्मयोगः, “सहस्राणि सहस्रधा बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि " (तै. सं.) इति भगवतः रुद्रस्य बाह्वोः बलादिसर्वक्रियाशक्तिमत्त्वं तथा तदीशितृत्वं च अनुश्रयते । तत् सर्वमपि बलकर्म इन्द्रस्यैवेति गम्यते ऋमन्त्रवर्णात, तथाहि- “इन्द्रस्य बाह्वोभूयिष्ठमोजः ॥
___“बलविज्ञा य: स्थविर: प्रवीरः सहस्वान् वाजी सहमान उग्रः" (ऋ. म.१०-१०३-५) " गोत्रभिदं गोविदं वज्रबाहुं जयन्तमज्म प्रमृणन्तमोजसा" (ऋ. मं. १०-१०३-६) इति च ॥
" इन्द्रो मे बले श्रितः" (ते.) इति च यजुः || यश्च विश्वशक्तिः सर्वशक्तिपूर्णः, विश्वकर्मा सर्वकर्मकर्तृत्वशक्तिपूर्णः, अत एव महस्वान् तेजस्वान् ओजस्वान्, तदेतद् विद्युदात्म रुद्रियं सत्त्वं भवति ॥ " न वा ओजीयो रुद्र त्वदस्ति" (ऋ. मं २-३३. १०) इति तदनुश्रवणम् ||
तेजोमयस्य सूर्यादेः सर्वकर्मप्रवर्तकत्वं प्रत्यक्षसिद्धमेव, एतेन सूर्येन्द्ररुद्रादितेजोविभूतिपूर्णः स परम: पुरुष: इति सिध्यति ॥ यः सोमसत्त्वः सोमादिरसस्वरूपः चान्द्रमसश्च दिव्य: मनस्वान् आध्यात्मकमानससत्त्वपूर्णः, " चन्द्रमा मनसो जातः" (ऋ. में १०-९०-१३) इति तदनुश्रवणम्, “यो जात एव प्रथमो मनस्वान्० स जनास इन्द्रः" (ऋ.मं. २-१२-१) इति च तदनुश्रवणात् यस्य इन्द्रात्मता अनुगम्यते || यश्च विश्वकामः सर्वतन्त्रस्वतन्त्रेच्छासङ्कल्पादिशक्तिपूर्णः, इच्छाया: सङ्कल्प-भावनादीनां च मनोबीजसत्त्वात, “कामस्तदने समवर्तताधि मनसो रेत: प्रथमं यदासीत्" (ऋ. मं. १०-१२९-४) इति मन्त्रवर्णः || "सर्वेषां सङ्कल्पानां मनः एकायनम् " (बृ. उ. ४-५.१२) इति च ब्राह्मणम् || "काम: सङ्कल्पो विचिकित्सा धीही रित्येतत् सर्वं मन एव" (बृ. उ.) इति च तदनुश्रवणम् ॥ तं तादृशं पुरुषं धीभिः तादृशीभिः व्यापकसत्त्वमयीभिः सर्वधीन्द्रियवृत्तिभिः सवत्र व्याप्ताभिः भगवतः दिव्यविभूतिसत्त्वसमन्वयेन तथा बाह्यभौतिकविषयेभ्य: अन्त: प्रत्युपसंहृताभिः तपसा तद्भावानुनिरतेन आध्यात्मकेन आन्तर्येण अलौकिकेन साधनेन तदेकनिष्ठया च अपरोक्षतः तं स्वं पुरुषं प्राप्नोमीति ॥
COMMENTARY-SUMMARY TRANSLATION
This Purusha, the supreme, is really a very great one. He is above and beyond all. He is a Visva-bahu, that is, he is all arms, he can do anything. Cf. "He has arms all round” (Rg. X-81-3). “He has hands all round" (Tait. Sam. IV-2-6-4). Upanishads follow up with the statement, “For all the work to be done, the hands are the only means" ( Br. Up. IV-5-12).
'Thousand-handed is the Purusha” (Athar. Sam. XIX-6-1). Here is a reference to Purusha with Sahasra, that is innumerable or infinite hands.
He is the possessor of strength. “There is strength in the arms." This