________________
310
छन्दोदर्शनम
गायत्रीप्रभृतीनि छन्दस्सत्त्वानि अनुसृत्य अगच्छम् तान्येव छन्दासि आत्मनि अन्त: उपप्रापम्, तैरेव छन्दोभिः भूयोऽपि तपस्यन् प्राचीनतमानां वेदानां विज्ञानेन तद्देवतानां प्रसादेन धियां समाधिसत्त्वेन सम्प्रसादेन च ऋचः इमा: नूतनाः अन्वदशम् छन्दोदर्शनसत्त्वेन स्वयं सम्प्रापम्, तेन च महसा दिव्येन ब्रह्मवर्चसेन मन्त्रद्वक् मन्त्रद्रष्टैव सन् ऋषिः ऋषित्वलक्षणसम्पन्नः अभवम् तत्साक्षात्कारेण संवृत्तोऽस्मि, “ऋषिविप्रः काव्येन" (ऋ. मं. ८-७९-१) इति, "ऋषिर्ह दीर्घश्रुत्तमः" (ऋ. मं.) इति च तदनुश्रवणम् |
___ एवं योऽयमेतादृशेन ऋषिसत्त्वेनोदितः सोऽयं अन्तरात्मा सत्यः सत्यमन्त्रः अमृतात्मस्वरूप: विश्ववेदाः सर्ववित् सत्त्वसम्पन्नः इति ॥
तदिदं छन्दोदर्शनं नूतनमेव भवितुमर्हति, तथा च वसिष्ठायं ऋङ्मन्त्रदर्शनम्, "ये च पूर्व ये च नूत्ना इन्द्र ब्रह्माणि जनयन्त विप्राः ॥ अस्मे ते सन्तु सख्याशिवानि यूयं पात स्वस्तिभिः सदा नः" (ऋ. मं. ७-२२-९) इति ॥ एवं नूतनेन मन्त्रदर्शनेन नूतनाः ऋषयोऽपि भवन्तीति वेदे श्रयते तथा च माधुश्छन्दसं आर्ष दर्शनम् --." अग्निः पूर्वेभिर्ऋषिभिरीडयो नूतनैरुत" (ऋ. मं. १-१-२) इति ॥
अत्र छन्दस्वत्याः वाग्देवताया एव सत्प्रसादेनोदितं तदिदं छन्दोदर्शनसत्त्वमिति प्रतिज्ञायते, तत्प्रतिज्ञावचनं च वाच: आम्भृण्याः एव भवति, तच्च अनेन छन्दोदर्शनेन सार्थकं सत्यं प्रत्यक्षसिद्धमेवेदमभूदिति गम्यते - "यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषि तं सुमेधाम् " (ऋ. मं. १०-१२५-५) इति || "उतो त्वस्मै तन्वं१ विसो जायेव पत्य उशती सुवासा:" (क्र. मं. १०-७१-४) इति || अस्मिन् अथ औपनिषदं मन्त्रवचनमपि भवति–“यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनू५ स्वाम् " (कठो. १-२-२३) इति || एतावता प्रपञ्चेन प्रमाणेन इदानीमपि नूतनं मन्त्रदर्शनं तथा नूतनं ऋषित्वं च तपसैव प्राप्तुं शक्यमिति सिध्यति ॥
COMMENTARY_SUMMARY TRANSLATION This self-introspective soul (of Daivarata) purified itself by tapas, that is by critical examination of experiences, by logical thought and by sacrifices. Thereby he became the master of his inner powers and other instruments of knowledge. Being thus purified, he was able to enter the secrets of the Vedic metres such as Gayatri, and of the sacred mantras. This enabled him to
see' new Vedic mantras in his vision, mantras which are similar and akin to those of the most ancient mantras. This was possible (for Daivarāta ) on account of his tapas, his deep knowledge of ancient Veda mantras, the grace of the respective gods who are the subjects of the mantras, concentration amounting to communion with the truth of truths, and on account of spiritual delight. He has become the seer of mantras by his great powers of knowing Brahma. He is full of the characteristics of a seer of mantras. Daivarāta is