________________
छन्दोदर्शनम
301
(ऋ.मं. ३-५९-१-९) एतस्मिन् अर्थ प्रमाणम् | "आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम" (ऋ. मं ३.५९.३) इति च | तत्र विश्वमित्रत्वसम्पत्तिबोधकं इदं छन्दोवचनम्, अत एव तेनैव योगेन नाम्नाऽपि “ विश्वामित्रः" इति प्रसिद्धः स: ऋषिः, तच्च मन्त्रदर्शनप्राप्ताद् ऋषित्वादेवेति गम्यते ॥ अत्र “ विश्वामित्रः" पूर्वपददीर्घ: “ मित्रे चर्षों " (पा. सू. ६-३-१३०) इति सूत्रात् सङ्गच्छते ॥ तादृशं ऋषित्वमपि प्राणस्वरूपात्मत्वादेवेति गम्यते ॥ " सप्तर्षयस्तपसे ये निषेदुः" (ऋ. मं. १०-१०९-४) “सप्तर्षयः प्रतिहिताः शरीरे” “तस्यासत ऋषयः सप्त तीरे” (बृ. उ. १-२-३) “सप्त प्राणाः प्रभवन्ति तस्मात्" ( मुं. उ. २-१-८) “सप्त वै शीर्षण्याः प्राणाः" (तै. आ. ) इति च सप्तानां ऋषीणां प्राणस्वरूपत्वेनोपदेशः, “प्राणो वै वसिष्ठः, प्राणो वै विश्वामित्रः" (ऐ.आ.) इति वसिष्ठस्येव विश्वामित्रस्यापि त्राणशब्देन निदशः सङ्गच्छते ॥ यश्च मन्त्रकृत् मन्त्रद्रष्टा ऋषिः ब्रह्मर्षिः इति प्रसिद्धः, वसिष्ठ- वामदेवादिवदेव विश्वामित्रस्यापि सर्वात्मभावोदितब्रह्मात्मसाक्षात्कारानुश्रवणं दृश्यते ॥
तथा च तस्य विश्वामित्रस्यैव ऋङ्मन्त्रदर्शनं अपि एतस्मिन् अर्थ प्रमाणं भवति ||
“ अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् | अर्कस्त्रिधातू रजसो विमानोऽजस्रो धर्मो हविरस्मि नाम" (ऋ. मं. ३-२६-७-८ ) इति ॥ "अजस्र ज्योतिहविरस्मि सर्वम् " ( साम.) इति च || सोऽयं आत्मा सत्यः सत्यमन्त्रस्वरूप: सत्यप्रतिज्ञःसिद्धः, " सत्यमन्त्रा ऋयवः” (ऋ. मं. १-२०-४) इति ऋषीणां सत्यमन्त्रत्व प्रतिज्ञायते ॥ तथा अमृतात्मा विश्ववेदाः जातवेदः स्वरूपः विश्वेषां ज्ञानानां वेदानां च द्रष्टा सर्वज्ञः परमर्षि: इति ||
अत्र “ मन्त्रकृत्" इति ऋषेः यत् खलु मन्त्राकर्तृत्वं प्रदर्शितं तत्तु केवलं मन्त्राद्रष्टत्वमेवेति बोध्यम् | न तु पुनस्तत् कृतिसाध्यत्वरूपं भवितुमर्हति ॥ अत एव " मन्त्रादृक्मन्त्राकृत्" इति सुस्पष्टार्थकं तत्समानार्थकमेव सङ्गच्छते ॥ प्रसिद्ध ऋगादिवेदे तन्मन्त्राकर्तृत्वं बहुधाऽनुश्रूयते, “ऋषे मन्त्राकृतां स्तोमैः काश्यपोद्वर्धयन् गिरः । सोमं नमस्य राजानम्०" (ऋ. मं. ९-११४-२) इति || “ अहं ब्रह्म कणवं मह्यं वर्धनम्” (ऋ. मं १०-५१-१) इति च ऋङ्मन्त्रावर्णो || “ यामृषयो मन्त्रकृतो मनीषिणः अन्वैच्छन् देवास्तपसा श्रमेण ॥ तां देवीं वाच५हविषायजामहे सा नो दधातु सुकृतस्य लोके" (तै. ब्रा. २-८-८-५) इति याजुषो मन्त्रवर्णः ॥ अत्रा "वाचा विरूपनित्यया,” इति (ऋ.मं.) " यज्ञैन वाचः पदवीयमायन् तामन्वविन्दन् ऋषिषु प्रविष्टाम् " (ऋ. मं. १०-७१-३) "ओहब्रह्माणो विचरन्त्यु त्वे" (ऋ. मं. १०-७१-८) इति च ॥ एवमादिभिः दर्शितानां तेषां कर्तृत्वं करणत्वं च नाम नित्यसिद्धानां मन्त्राणां पुन: कृतेरसम्भवात् अनौचित्याच्च विद्यमानानामेव दर्शनेन श्रवणेन तदनुवचनादिरूपेण तदाविर्भावमात्रं भवितुमर्हतीति