________________
पदपाठः
-
छन्दोदर्शनम्
यः । अन्तरिति॑ । गर्भे । सम् । आत्मानम् । वेद॑ ।
चित् । आ॒विः । अभूत् । यः। वि॒श्वऽथा॑ । आ॒त्मना॑ ॥
1
मन्त्रऽदृक् । एव । ऋषिः । यः । वामऽदेवः ।
सः । सत्यः । अयम् । अमृतः । विश्वऽवैदाः ||
299
Atmå knew himself while still in the womb and with that self-knowledge, manifested himself as the whole universe. He is Vamadeva, a seer and indeed a seer of mantras. He is the truth, he is immortal and omniscient.
अन्वयभाष्यम् |
यः महान् प्रसिद्ध: रुद्रो वामदेव इति दिव्यः देवतात्मा तस्यैव सत्त्वेन सिद्धः सन् गर्भे मातुः गर्भाशये अन्त: शयान एव आत्मानं सम्यक् वेद संविविदे तत्त्वतः सम्यग् - ज्ञानेन साक्षात् चकार, इति वेदोपनिषत्पुराणादिषु सुप्रसिद्धं, तथा तेन स्वस्वरूपतत्त्वज्ञानेन यः विश्वथा विश्वरूपेण आत्मना स्वरूपेण ब्रह्मात्मना आविर्बभूव सर्वतः प्राकाश्यं प्राप | तस्येदं ऋङ्मन्त्रदर्शनम्,
८८
अहं मनुरभवं सूर्यश्चाहं कक्षीवाऋषिरस्मि विप्रः ॥
अहं कुत्समार्जुनेयं न्यृञ्जेऽहं कविरुशना पश्यता मा || ” (ऋ. मं. ४-२६-१-३) इति || तन्मन्त्रस्य औपनिषदं ब्राह्मणमपि भवति तावत्तत्त्वार्थप्रतिपादकम् —
(C
'ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेदहं ब्रह्मास्मीति । तस्मात् तत् सर्वमभवत्, तद् यो यो देवानां प्रत्यबुध्यत स एव तदभवत्, तथर्षीणां तथा मनुष्याणां तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे, अहं मनुरभवं सूर्यश्चेति” (बृ. उ. १-४-१० ) इति ॥ एवं मातुः गर्भ अन्तरेव विद्यमानस्य वामदेवस्य तदेतादृशं सर्वात्मभावसम्पन्नं ब्रह्मानुभावपूर्ण तत्त्वविज्ञानं उदियायेत्यपि अनुश्रूयते
-
" गर्भे नु सन्नन्वेषामवेदमहं देवानां जनि मानि विश्वा ॥ शतं मा पुर आयसीररक्षन् अधः श्येनो जवसा निरदीयम् ” (ऋ. मं. ४ - २७ - १ ) इति । एतन्मन्त्रस्य उपव्याख्यानं औपनिषदं ब्राह्मणानुवचनम्, - पुरुषे ह वा अयमादितो गर्भोभवति० " - इत्यादि ॥ स इतः प्रयन्नव पुनर्जायते तदस्य तृतीयं जन्म तदुक्तमृषिणा " गर्भनु सन्नन्वेषामवेदं निरदीयमिति गर्भ एवैतच्छयानो वामदेव एवमुवाच " ( ऐ. उ. ४ - ५ ) इति ॥
८८
-
91
यः एवं मन्त्रदृक् मन्त्रद्रष्टा एव सन् ऋषिः प्रसिद्ध: वामदेव: यश्च वामदेवनामा रुद्रः सः तादृश: देवतात्मा च सोऽयं आत्मा सत्यः सत्यत्वादिलक्षणसम्पन्नः विश्ववेदाः सर्वज्ञः विश्ववेदविशिष्टः स्वयं अमृतात्मैव भवतीति सम्पद्यते ॥