________________
छन्दोदर्शनम
279
रन्यः पिप्पलं स्वाद्वत्त्यनश्नन् अन्यो अभि चाकशीति" (ऋ. मं. १-१६४-२०) इति ऋमन्त्रवर्णोपवर्णितं तत्त्वमनुसन्धेयम् ॥
अस्मिन् मन्त्रे जगद्-ईश-जीवात्मनां सामरस्ययोगः उपदिष्टः, तथा जीवेशयोरात्मनो: सहयोगः, सखित्वं, समानस्थानत्वं, समानकनामरूपत्वं च निर्दिष्टं गम्यते, तथैव पुनः तयोरनयोः जीवात्म-परमात्मनोः भोगाभोगमात्रेण अशनानशनरूपेण गुणेन च वैशिष्टयं तत्त्वदृष्टया उपदिष्टं अनुश्रूयते ॥ ___अत्र "ऋतं पिबन्तौ सुकृतस्य गुहां प्रविष्टौ परमे परांध" (कठो. १.३-१) इति च
औपनिषदः श्लोकोऽपि तत्समानार्थक एवेति दृश्यते, तच्च ब्रह्ममीमांसायां निर्णीतेन अर्थन सामान्यात् अपि प्रतीयते, “गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् " (ब. सू. १-२-११) इति अस्मिन् छन्दोदर्शने तु " अयं चिद् विश्वमभ्यश्नोति चित्तिभिः” इत्यस्मिन् मन्त्रे पराक्त्वप्रत्यक्त्वसत्त्वेन एकस्यैवात्मनः विश्वव्याप्ति-स्वरूपस्थितिरूपे अशनानशनरूपे चैतन्यसत्त्वे समर्थिते भवत:
अस्मिन् अर्थ ऋमन्त्रोपपादितं तत्त्वमनुसन्धेयम्" एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे || तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेळिह स उ रेळ्हि मातरम् ॥"
(रु. म. १०-११४-४) इति । एवमेव “ अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ॥
स सध्रीचीः स विषूचीर्वसान आवरीवति भुवनेष्वन्तः” (ऋ. मं. १-१६४-३१, ऋ. मं. १०-१७७-३) इति * ॥ अयं ऋङ्मन्त्रवर्णोपि प्रमाणोदाहरणम् ||
अत्र अनयोर्मन्त्रयोः “ अपश्यम्" इति तत्साक्षात्कारानुवचनं समानमेव भवति ॥
अपि च तदेतदेव परमपुरुषस्य तस्य परमं तात्त्विकं स्वरूपमुपवर्णितं चतुर्ध्वपि वेदेषु पुरुषसूक्तमुखेन सुप्रसिद्धेन मन्त्रवर्णन – "त्रिपादूर्ध्व उदैत् पुरुषः पदोस्येहाभवत् पुनः ॥ ततो विध्वङ् व्यक्रामत् साशनानशने अभि " (ऋ. मं १०-९०-४) इति ॥
अस्मिन् ऋङ्मन्त्रे एकस्यैव पुरुषस्य तस्य चेतनात्मनः प्रवृत्ति--अप्रवृत्तिरूपोभयवृत्ति
* टिप्पणी- अस्य मन्त्रस्य उपव्याख्यानानि ब्राह्मणारण्यकोपनिषदादिषु बहुधा अनुश्रूयन्ते || (१) “तस्य वाकतन्तिर्नामानि दामानि०” इत्यादि “ तदुक्तमृषिणा अपश्यं गोपा
मनिपद्यमानम् ” (ऐ. आ. २-१ ६) इति | (२) “ अपश्यं गोपामित्याह० असो वा आदित्यो गोपाः प्राणो वै गोपाः” (ते. ब्रा.
५-६-१५)। ( ३) “ अपश्यं गोपा. एष वै गोपाः” (श. प. बा. १४-१-४-१-१०) इत्यादि | (४) “आवरीवति भुवनेष्वन्तरिति एष महानात्मा सत्त्वलक्षणः” (नि.१४-३ )
इत्यादि।