________________
छन्दोदर्शनम
273
" हृद्ययमिति तस्माद् हृदयम्" (छा. उ. ८-३-३) इति यच्च हृदयं ब्रह्म ब्रह्मात्मकं सत् सर्वभूताधिष्ठानं तत्प्रतिष्ठाश्रयीभूतत्वात् || "हृदयं वै सम्राट् सर्वेषां भूतानामायतनम् , हृदयं वै सम्राट् सर्वेषां भूतानां प्रतिष्ठा, हृदये ह्येव सम्राट् सर्वाणि भूतानि प्रतिष्ठितानि भवन्ति, हृदयं वै सम्राट् परमं ब्रह्म” (बृ. उ. ४-१-७) इति च औपनिषदं ब्राह्मणम् , अयं आत्मा हृदयस्वरूपः सन् स्वयं अन्तः हृदये स्वस्मिन् यत् परं ब्रह्म अनुसरति अक्षरब्रह्मरूपया परया वाचा अनाहतनादरूपेण च, तथा स्वरन् स्वयं तद् ब्रह्मवस्तु अनु लक्ष्य ब्रह्मणा मन्त्रेण सह तन्मुखेन, बृहता व्यापकेन व्योमसत्वेन दिक्स्वरूपेण ब्रह्मात्मकेनैव अन्तः श्रोत्रेण आत्मनः मिथुनीभूतेन आत्मनि अन्तः शृणोति, "श्रोत्रं चात्मा चाश्विनः" (ऐ. ब्रा.) इति च ब्राह्मणम् || "उत नो ब्रह्मन्नविष इति शंसति श्रोत्रं वै ब्रह्म श्रोत्रेण हि ब्रह्म शृणोति" (ऐ. ब्रा.) इति च ब्राह्मणम् || एतेन “आत्मा वा अरे द्रष्टव्यः श्रोतव्यः” (बृ. उ. ४-५-६) इत्युपदिष्टं आत्मश्रावणं हि प्रतिस्फुरणं ब्रह्मैव अनुस्वरतः आत्मनः अन्तःश्रवणमेव भवितुमर्हति, न तु गुरूपदिष्टस्य उपनिषद्वाक्यस्य बहि श्रावणमात्र इति सूचितं भवति ॥
सोऽयं आत्मा स्वस्मिन् अन्तः स्वरद् ब्रह्म अनुशृण्वन् पुनः ब्रह्मणा मन्त्रमुखेन च श्रोत्रेण च अन्तः श्रुतं तद् ब्रह्मैव अनुलक्ष्य तदनुश्रावणेन च तन्मयः सन् अयं आत्मा अन्तः चक्षुषा प्रत्यग्दृशा दिव्यदृष्टया ब्रह्मरूपेण प्रज्ञानेत्रेण अन्तः हृदये ज्योतिः स्वयम्प्रकाशकं ज्योतिरात्मकं साक्षिरूपं तत् परं ब्रह्म अभि अभितः अन्तर्बहिरपि सामरस्येन चष्टे पश्यति, अत्र सम्यग्ज्ञानेन तत् परं ज्योतिरात्मकं वस्तु साक्षात्करोतीति भावः ॥ अत्र तद्दर्शने साधनभूतं चक्षुरपि ब्रह्म, तथाऽनुश्रवणात्, “चक्षुर्वं ब्रह्म, चक्षुः सत्यम्," "यच्चक्षुषा पश्यति तत् सत्यं भवति" (बृ. उ. ४-१-४) इति च औपनिषदं वचनम्, “ अथ यदतः परो दिवो ज्योतिर्दीप्यते०, तद् यदिदमन्तः पुरुष ज्योतिः, तदेतद् दृष्टं च श्रुतं चेत्युपासीत, चक्षुष्यः श्रतो भवति " (छां. उ. ३-१३-७) इति च ॥
तदिदं “ज्योतिश्चरणाभिधानात्” (ब्र. सू. १-१-२४) इत्यस्मिन्नधिकरणे मीमांसितमनुसन्धेयम् ॥
अस्मिन् अर्थे ऋमन्त्र एवास्य सर्वस्यापि मूलं प्रमाणम् | “भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः" (ऋ. १-७९-८) इति ॥
COMMENTARY_SUMMARY TRANSLATION This Atma is in the heart. It is sometimes called 'heart.' Heart is the very seat of the soul. It is the seat of the soul because it is the place from where all the senses which pursue their objects draw their strength. He is the heart itself, because the Atma is established in the heart. Cf: "This Atma is in the heart" ( Pras. Up. III-6). The derivation of the word 'hrdaya' also points that way. Cf: “This is in heart and so, it is heart" (Chh. Up. CD-35