________________
264
छन्दोदर्शनम
नवमी ऋक् । यः प्रजानन् अजन्यो यः सन् अर्मयों यो विश्वा राजतेऽन्तर्य एकः॥ यो वा स्वराट् सम्राड् विराड् विभुः प्रभुः
स सत्योऽयममृतो विश्ववेदाः ॥९॥ पदपाठः – यः। प्रऽजानन् । अर्जन्यः । यः । सन् । अम॑र्त्यः।
यः। विश्वऽर्धा । राजते । अन्तरिति' । यः। एकः ॥ यः । वा । स्वऽराट् । सम्ऽराट् । विऽराट् । विऽभुः । प्रभुः। सः । सत्यः । अयम् । अमृतः । विश्वऽवैदाः ॥
दशमी ऋक् । तत् ते भगवन् इन्द्र ब्रह्मणस्पतेऽयं संविदा तपस्यन् अनु तुरीयम् || पदं पश्यामि दर्शतं सम्परीतं
तत् परम ज्योतिर्विश्वस्य दर्शयत् ॥ १० ॥ पदपाठः – तत् । ते । भगऽवन् । इन्द्र । ब्रह्मणः । पते ।
अयम् । सम्ऽविदा । तपस्यन् । अर्नु । तुरीयम् ।। पदम् । पश्यामि । दर्शतम् । सम् । परि' । इतम् । तत् । परमम् । ज्योतिः। विश्वस्य । दर्शयत् ।।
॥ इति चतुर्थऽनुवाके षष्टं इन्द्रसूक्तम् समाप्तम् ॥ Thus ends the Sixth hymn in the Fourth Section. अत्रायं विशिष्टो विषयः कश्चित् --
“यो वा सन्नेक एवासीत् पुरुषोऽयम्” इति अष्टचं एकं सूक्तम् , “यो विश्वतः सी प्रथमं बभूवायम् ” इति दशचं अन्यत् सूक्तम् , तदिदं सूक्तद्वयं छन्दोदर्शनसमये द्विविधमनुश्रुतं द्विवारम् - किञ्चित् पाठभेदेन, तत्र प्रथमत: प्रत्येकस्मिन् मन्त्रे उभयोरपि