________________
258
छन्दोदर्शनम्
तृतीया ऋक् । यश्चिद् विश्वमिदं वेद ब्रह्मणाऽयं य इमा जजान भुवनानि विश्वा ॥ विश्वेषु योऽनु भूतेषु प्रविष्टोऽन्तः
स सत्योऽयममृतो विश्ववेदाः ॥ ३ ॥ पदपाठः - यः। चित् । विश्वम् । इदम् । वेदं । ब्रह्मणा । अयम् ।
यः । इमा । जजान । भुवनानि । विश्वा । विश्वेषु । यः। अनु । भूतेषु । प्रऽविष्टः । अन्तरिति । सः । सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
चतुर्थी ऋक् । यो विदा ब्रह्म बृहन् यो बृहस्पतियो जनिता ऋचां यो ऋषिः परः सन् ॥ यो वाचो विश्वस्य जनिता सत्प॑तिः
स सत्योऽयममृतो विश्ववेदाः ॥ ४ ॥ पदपाठः - यः । विदा । ब्रह्म । बृहन् । यः। बृहस्पतिः।
यः । जनिता । ऋचाम् । यः । ऋषिः। परः । सन् ॥ यः । वाचः । विश्वस्य । जनिता । सत्ऽपतिः । सः। सत्यः । अयम् । अमृतः । विश्वऽवेदाः ॥
पश्चमी ऋक् । यो विश्वथा ज्योतिरभि द्योततेऽयं यस्मिन् अन्यन् न रोचते परं किं स्वित् ॥ य एकः सन् सहसेह चेततेऽन्तः स सत्योऽयममृतो विश्ववेदाः ॥५॥