________________
256
छन्दोदर्शनम हवै नाम तमिदन्द्र सन्तमिन्द्र इत्याचक्षते परोक्षेण” (ऐ. उ. १-३, १३-१४ ) इति ॥
“इदं दर्शनादित्यौपमन्यवः" इति च यास्कनिरुक्तम् || (नि. १०-८-१०) तथा अन्यत्रापि “ इन्धो हवै नाभैष योऽयं दक्षिणेऽक्षन् पुरुषो ( दृश्यते) तं वा एतमिन्ध सन्तं इन्द्र इत्याचक्षते परोक्षेणैव" (बृ.उ. ४-२-२) इति आत्मनोऽस्य अक्षिपुरुषस्य दृक्सत्त्वस्य स्वयम्प्रकाशस्य परोक्षेण इन्द्रसञ्ज्ञां दर्शयति |
___“इन्धे भूतानीति वा । तद्यदेनं प्राणैः समैन्धन् तदिन्दस्येन्द्रत्वमिति विज्ञायते" (नि. १०-८-७-८ ) इति ॥
एवमेव मधुविद्यायां तस्य ऋमन्त्रोपदिष्टस्य इन्द्रस्य विश्वरूपसत्त्वेन ब्रह्मात्मत्वम् नुशास्ति उपनिषन्मुखेन याज्ञवल्क्यः- तथाहि- " इदं वै तन्मधु दध्यङ्आथर्वणः अश्विभ्यामुवाच तदेतदृषिः पश्यन् अवोचत्”, “रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणाय ॥ इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश" (ऋ .मं. ६-४७-१८) इति !! सोऽयं ऋड्रमन्त्रः बृहदारण्यकोपनिषदि मधुविद्यायामेव अन्ततो व्याख्यातः || " अयं वै हरयः अयं वै दश च शतानि च बहूनि च अनन्तानि च तदेतद् ब्रह्मापूर्वमनपरमनन्तरबाह्यम्, अयमात्मा ब्रह्म सर्वानुभूरित्यनुशासनम्” (बृ. उ. २-५, १९) इति li एवं पारमैश्वर्ययोगसत्त्वपूर्णत्वं परमानन्दरसात्मत्वं च तस्य इन्द्रस्य प्रधानं लक्षणं दर्शयति यास्कः॥
" इन्दतेर्वा ऐश्वर्यकर्मणः ०" (नि. १०-८-११) “इन्दौ रमते इति वा” (नि. १०-८-७ ) इति च ॥ अस्मिन्नर्थे प्रधानप्रमाणभूतः ऋड्रमन्त्रवर्णः
" यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते || कामस्य यत्राप्ता: कामास्तत्र माममृतं कृधि | इन्द्रायेन्दो परिस्रव" (ऋ. मं. ९) इति ॥
तस्य इन्द्रस्य ब्रह्मात्मत्वे स्पष्टार्थकः ऋमन्त्रो भवति || "इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः परू पुरुहूतः॥ महान् महीभि: शचीभिः” (ऋ. मं. ८.१६-७ ) इत्यादिसक्षेपः ॥
॥ इति चतुर्थेऽनुवाके चतुर्थं इन्द्रसूक्तम् समाप्तम् ॥ Thus ends the Fourth hymn in the Fourth Section.