________________
238
छन्दोदर्शनम्
श्रेष्ठतमः ईश्वरोत्तमः, यः भगस्य सर्वस्यापि ऐश्वर्यस्य दाता दानशील: दातृत्वस्वभावसिद्धः सत्पतिः सतां सद्वस्तूनां च अधिपतिः तं तादृशं परमं ईश्वरं इन्द्रमेव शं शाश्वतं सुखं प्राप्तुं वृणे समाश्रये स्वकीयं सम्भावयामीति ॥
COMMENTARY-SUMMARY TRANSLATION
He is the reputed lord. He is wealth itself. He is full of all wealth. He is the head of the wealthiest. He is the best lord. He is the giver of all wealth. He is the lord of all good people and of all good things. Such is the supreme lord Indra; him only, for eternal happiness I worship and I consider him as my own.
षष्ठी ऋक् ।
यो असौ रसो यो रस॑वान् रस॒पती रसनां यो रस॑त॒मः सत्प॑तिः ||
विश्वा॑नि॒ यो भू॒तानि॑ रसय॒ती
न्द्र॑मे॒व तं वृ॑णे॒ शङ् गम॑ध्यै ॥ ६ ॥
पदपाठः- यः । असौ । रसः । यः । रसेऽवान् । रसऽपतिः ।
रसा॑नाम् । यः । रस॑ऽतमः । सत्ऽप॑तिः ॥ विश्वा॑नि । यः । भू॒तानि॑ । र॒सयति ।
इन्द्र॑म् । ए॒व । तम् । वृ॒णे । शम् । गम॑ध्यै ।
Indra is indeed Rasa, the sweet essence. He is a 'Rasavan,' full of sweet essences. He is a Rasapati, Lord of Rasas. He is the essence of essences; and a good ruler. He pleases all beings through the essence of pleasure. I seek only Indra for peace and happiness.
अन्वय भाष्यम् ।
यः असौ श्रुत्यादिषु प्रसिद्धः रसः स्वयं रसात्मा संविद - आनन्दादिसत्त्वः स्वयमेव सिद्धोऽस्ति || तथा च “ रसो वै सः | रस ह्येवायं लब्ध्वाऽऽनन्दी भवति ” ( ब्रह्मो. ७) इति औपनिषदं वचनम् ॥ यश्व रसवान् सर्वरसपूर्णः रसपतिः ज्ञानानन्दादीनां सर्वेषां आनन्दानां च रसानां अधिपतिः रसाधिष्ठाता, यः रसानां संवषां रससत्त्वानां रसतमः रसोत्तमः, परमो रसः इति यावत्, ब्रह्मानन्दग्सात्मा सत्पतिः सद्वस्तूनां अधिपतिः यः विश्वानि इमानि भूतानि सर्वप्राणिजातानि रसयति स्वेन रसेन आनन्दयति आत्मसात् करोतीति भाव:, " अग्निरिव अयःपिण्डं " सर्वं रसमयमेव भावयतीति, तं इन्द्रमेव पूर्ण स्वयं रसात्मानं शं मध्यै आत्मशान्तये संविदा योगेन च प्राप्नोमीति ॥