________________
236
छन्दोदर्शनम
अन्वयभाष्यम्। यः इन्द्रः देवः स्वयं परमो देवतात्मैव सन् देवानां सर्वेषामपि देवतमः देवोत्तमः, यश्च मवः स्वयं ऐश्वर्यरूपः ऐश्वर्ययुक्तश्च सन् मघोनां ऐश्वर्यवतां मघवत्तम उत्तमः, यः रथी रथिकः सन् सर्वेषां रथिनां रथवतां सूर्यादीनां उत्तम: सर्वरथिकेभ्यः श्रेष्ठतमः, तं इन्द्रमेव सर्वश्रेष्ठं शान्तिसुखावाप्तये समाश्रये सर्वस्वभावेनेति ||
COMMENTARY-SUMMARY TRANSLATION
Indra is himself a god; he is the god of all the gods. He is riches itself and the richest of all the rich. He is a rider of chariots and is the swiftest and the best of all. Only him, the best of all in all, I resort to for peace and happiness.
चतुर्थी ऋक् । यो असौ विश्वस्य योगे सं युनक्ति विश्वस्यैव यः क्षयति क्षेमस्य । यो वा विश्वाः प्र शुचः शमयती
न्द्रमेव तं वृणे शङ गमध्यै ॥४॥ पदपाठ :- यः । असौ । विश्वस्य । योगे । सम् । युनक्ति ।
विश्वस्य । एव । यः । क्षयति । क्षेमस्य । ॥ यः। वा । विश्वाः । प्रऽशुचः । शमयति । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ॥
Indra controls and orders the acquisition of everything worth having. He is the ruler who attends to the protection of acquired things. He indeed pacifies all the sorrows of life. Only him I seek for peace and happiness.
अन्वयभाष्यम् । यः प्रसिद्धः ईश्वर इति असौ इन्द्रः विश्वस्य सर्वस्यापि जीवजातस्य योगे योगाय सर्वपुरुषार्थस्य प्राप्तये तथा अप्राप्तस्य अभीप्सितार्थस्य प्रापणे स्वेन परमेण आत्मना इन्द्रेण सङ्गमे समाधौ च संयुनक्ति साधकान् यथायोग्यं योजयति, य: विश्वस्यैवास्य जगति क्षयति ईशिता सन् प्रभवति, प्राप्तरक्षणलक्षणस्य क्षेमस्य परमकल्याणरूपस्य क्षयति प्रभुः पालको भवतीति अभिप्रायः॥