________________
234
छन्दोदर्शनम
पदपाठः- यः । विश्वेषाम् । अमृतानाम् । इरज्यति ।
मानाम् । यः । यन्ता । यमः । निऽहन्ता ।। सः । इन्द्रः । एव । मम । भद्रः । अस्तु । ईशिता । इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ।।
Indra rules over and controls the whole of the universe, with all the immortals. He controls the mortals also. He is the god Yama, the killer. May that Indra be my ruler and promoter of good fortune. I seek only Indra for my welfare and peace.
अन्वयभाष्यम् । यः इन्द्रः विश्वषां जगतां अमृतानां अमृतात्मनां सर्वेषां देवानां इरज्यति ईष्टे ईशिता सम्राट् भवति, यः मानां मनुष्याणां च यन्ता नियन्ता यम: धर्मराजः निहन्ता उपसंहर्ता, सः तादृशः इन्द्रः एव पारमैश्वर्यसत्त्वपूर्णः ईश्वर एव मम अस्य भद्रः कल्याणप्रदः ईशिता प्रभुः समर्थः सर्वतन्त्र स्वतन्त्र: अस्तु, तं इन्द्रमेव आत्मनः कल्याणार्थं शरणं व्रजामीति |
___ अत्र " इग्ज्यति पत्यते क्षयति राजतीति चत्वार ऐश्वर्यकर्माणः” (निघण्टुः२-२) इति अनुसन्धेयम् ॥
COMMENTARY_SUMMARY TRANSLATION Indra is the overlord of the whole universe with all the immortals. He is the controller of mortals also and he is Yama, Dharmarāja, the god of death. May that Indra only, who is the lord of all wealth, be my auspicious lord. I seek Indra only, as the refuge for my welfare.
"Irajyati, Patyate, Kshayati, Rajate," these four are the functions of a ruler (Nighantu:2-2).
द्वितीया ऋक् । यो दिव्यानामृतानां सत्प॑तियोऽन्तरिक्ष्याणामुत पर्थिवानाम् || पशूनां यो द्विपदां चतुष्पदा
मिन्द्रमेव तं वृणे शङ् गमध्यै ॥ २ ॥ पदपाठः- यः। दिव्यानाम् । अमृतानाम् । सत्ऽपतिः ।
यः । अन्तरिक्ष्याणाम् । उत । पार्थिवानाम् ।।