________________
छन्दोदर्शनम
233
अन्वयभाष्यम् । अयं मन्त्रः अस्मिन्नेव चतुर्थेऽनुवाके प्रथमे सूक्ते अष्टमः, पूर्वं व्याख्यातः ॥ अस्मिन् सूक्ते द्वितीयादिषु अष्टसु मन्त्रेषु अन्तिमे पादे “ सेन्द्रमेव तं वृणे शं गमध्यै ” इति विद्यते, तदर्थोऽपि व्याख्यात ऐव पदपाठानुसारेण “सः । इन्द्रम् | एव" इति || तत्र " इन्द्रेण सहितं सेन्द्र” इति व्युत्पत्त्या समन्वये “ सेन्द्रमेव शं गमध्य तं वृणे" इन्द्रयोगेन सिद्धं तत् परं कल्याणं अमृतत्वं प्राप्तुं इति अर्थोऽपि लभ्यते, तथैव सर्वत्रापि योजयितुं शक्यम् इत्येव विशेषः॥
|| इति चतुर्थेऽनुवाके द्वितीयं इन्द्रसूक्तं समाप्तम् ||
COMMENTARY-SUMMARY TRANSLATION This mantra is a repetition of the eighth mantra of the first section and so it is commented upon already.
Thus ends the Second hymn in the Fourth Section.
अथ चतुर्थेऽनुवाके तृतीयं इन्द्रसूक्तम् |
अनुवाकः ४ । सूक्तम् ३ | ऋचः १-१२ | इन्द्रः । यो विश्वेषाममृतानां द्वादश, देवरातो वैश्वामित्रः, इन्द्रः, त्रिष्टुप् |
Now this Indra Sukta, third in Fourth Anuvaka Section IV: Hymn 3: Riks 1-12 - INDRA.
This third hymn beginning with ‘Yo visveshăm' contains twelve Rks. Daivaräta Vaiśvāmitra is the Rshi: Indra is the god and Trishțup is the metre.
अथ प्रथमा ऋक् । यो विश्वेषाम॒मृतानामिरज्यति मर्त्यानां यो यन्ता यमो निहन्ता ॥ सेन्द्र एव मम भद्रो ३ऽस्त्वीशितेन्द्रमेव तं वृणे शङ् गमध्ये ॥१॥
CD-30