________________
230
छन्दोदर्शनम्
सप्तमी ऋक् ।
य ईमक्षरं स्वरन् व्याहृतिभिः
स्वर॒त्यृच॒ यज्ञ॒ष्यु॒त सामा॑नि || छन्दा'स्ये॒वानु॒ चेत॑सा तपस्यन्
सेन्द्र॑मे॒व तं वृ॑णे॒ शङ् गम॑ध्यै ॥ ७ ॥ पदपाठ :- यः । ई इति । अ॒क्षर॑म् । स्वर॑न् । व्या॒ह॒तऽः । स्वर॑ति । ऋच॑ः । यजूंषि । उत । सामानि ॥
छन्दसि । ए॒व । अनु॑ । चेत॑सा । तप॒स्यन् । सः। इन्द्र॑म् । ए॒व । तम् । वृ॒णे । शम् । गम॑ध्यै ।।
While repeating “iM” along with those Vyahrtis namely, Bhuh, Bhuvaḥ, and Svaḥ He utters Rk, Yajur and Sama Vedas. I follow those Vedas in my consciousness and practise Tapas. Thereby I seek Indra only for peace of soul.
अन्वयभाष्यम् |
""
यः इन्द्रः ई इति परं अक्षरं स्वरन् पुनः ताभिरेव व्याहृतिभिः " भूः भुवः स्वः इति तिसृभिः अनुक्रमेण ऋच: यजुषि सामानि चेति एतानि त्रीणि च्छन्दासि वेदरूपाणि स्वरति उच्छ्वासरूपेण श्रावयति, चेतसा मनसा तानि ऋग्यजुः सामानि च्छन्दासि गायत्र्यादीनि च अनुसृत्य अवलम्ब्य तपस्यन् पुनः पुनः अनुदिनं ब्रह्मयज्ञादिरूपेण परमं तपः अनुतिष्ठन् सोऽयमहं तं इन्द्रं सर्वविद्याधीशमेव आत्मशान्तये संविदुदयेन परं कल्याणं प्राप्तुं शरणं व्रजामीति ॥ प्रसिद्धंच इन्द्रस्य छन्दसां वर्षकत्वं अनुश्रूयते - " यश्छन्दसामृषभो विश्वरूपः | छन्दोभ्योऽध्यमृतात् सम्बभूव । स मेन्दो मेधया स्पृणोतु ” (शि. उ. ४ -१) इति, तथैव स्वाध्यायरूपस्य ब्रह्मयज्ञस्यैव परमतपःस्वरूपत्वं च उपदिश्यते- (C ऋतं च स्वाध्यायप्रवचने च । सत्यं च स्वाध्यायप्रवचने च० - स्वाध्यायप्रवचने एवेति नाकोमौद्गल्यः । तद्धितस्तद्धि तप: " ( शि. उ. ९ - १-६ ) इति च " यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ” (ऋ. ८-१९-५ ) इति वेदानुवचनस्य यज्ञरूपत्वं सुप्रसिद्धमेव ॥
"
COMMENTARY-SUMMARY TRANSLATION
Indra repeats "İM" the letter of letters with those three Vyahṛtis, Bhūḥ, Bhuvah, and Svah ; he makes one hear the three Vedas which follow, namely, Ṛk, Yajus and Sama respectively. With all my mind following those Vedas, Rk, Yajus and Sáma, and the metres, Gayatri, etc. and practising tapas, I seek only Indra, who is the lord of all learning for internal peace.