________________
छन्दोदर्शनम
227
एतैरेव मन्त्रैः पुनः प्रत्यञ्चि अन्तरात्मनि तपम्यन् स: अयमहं तथा स्वयमेव तपस्यन्तं तं परमं इन्द्रं सर्वान्तरात्मानमेव शं गमध्यै शान्ति प्राप्तुं वृणे स्वीकरोमि शरणं व्रजामीति ॥
COMMENTARY-SUMMARY TRANSLATION Indra utters the great Mantra “İM”, the word which is his and is supreme; he repeats, as it were, all the mantras continuously by reciting " IM" only. With the help of all these mantras which are his own and which come into existence on account of his divine vision, I seek him who is also practising tapas. He is Indra the inner soul and I seek him to get peace of soul.
चतुर्थी ऋक् । यो अक्षरं वाचमीमनु स्वरन् ब्रह्म प्रणौत्य वाचा ब्रह्मणा ॥ गुह्यं तमनु प्रणव तपस्यन्
सेन्द्रमेव तं वृणे शङ् गमध्यै ॥ ४ ॥ पदपाठ :- यः । अक्षरम् । वार्चम् । ईम् इति । अनु । स्वरन् ।
ब्रह्म । प्रऽनौति । अनु । वाचा । ब्रह्मणा ॥ गुह्यम् । तम् । अर्नु । प्रऽनवम् । तपस्यन् । सः। इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ।।
He repeats “İM”, the imperishable Vāk in the form of this word; be prajses the Super Soul with the same Vāk in the form of the secret Prasava Mantra. I seek Indra, practising tapas with that secret Pranava, to get peace of soul.
अन्वयभाष्यम् । य: इन्द्रः अक्षरं निजां अक्षरात्मिकां ई इत्येतां परां वाचं अनुस्वरन् ब्रह्मणा तेनैव मन्त्ररूपेण वाचा वाक्स्वरेण ब्रह्म पर ब्रह्मवस्तु अनुगम्य प्रणौति प्रकर्षण स्तौति, अत एव तदक्षरं "प्रणवः” इत्याहुः, गुह्यं त प्रणवं गुप्तप्रणवरूपं ई इति मन्त्रबीजाक्षरं अनुसृत्य भूयः तपस्यन् सः अयमहं तथा तपस्यन्तं ई इति गुप्तप्रणवाक्षरानुस्वरणेन सदा संस्फुरन्तं तं इमं इन्द्रं स्वं अन्तरात्मानमेव कल्याणं शांतिसत्त्व प्राप्तु वृणे शरणं ब्रजामीति ॥