________________
224
छन्दोदर्शनम्
अथ चतुर्थेऽनुवाके द्वितीयं इन्द्रसूक्तम् |
अनुवाकः ४ । सूक्तम् २ | ऋचः १-१० । इन्द्रः । यः प्रजानन् अजन्यः दश, देवरातो वैश्वामित्रः, इन्द्रः, त्रिष्टुप् | Now this Indra Sukta, second in Fourth Anuvaka
Section IV : Hymn 2 : Riks 1 - 10 - INDRA.
This second Hymn beginning with “Yaḥ prajānan ajanyaḥ” contains ten Rks. Daivarāta Vaiśvāmitra is the Ķshi: Indra is the god and Trishțup is the metre.
अथ प्रथमा ऋक् । यः प्रजानन् अजन्यो यः सन् अर्मयों यो विश्वा राजते स्वयमेकः ॥ यः स्वराट् सम्राड् विराड् विभुः प्रभु
रिन्द्रमेव तं वृणे शङ् गमध्यै ॥ १ ॥ पदपाठ :- यः। प्रऽजानन् । अजन्यः । यः । सन् । अमर्त्यः ।
यः। विश्वऽथा । राजते । स्वयम् । एकः ॥ यः । स्वऽराट् । सम्ऽराट् । विराट् । विऽभुः । प्रऽभुः ।
इन्द्रम् । एव । तम् । वृणे । शम् । गमध्यै ।। Though present to all in their hearts, he is indeed unborn. He is undying. He appears as many in the universe but He is one. He is self-luminous. He is all-powerful, all-pervading and all-controlling, the Lord of all. He is Indra. I worship him so that good may benefit all people.
अन्वयभाष्यम् । यः असौ सर्वानुभवसिद्धः दिवि प्रत्यक्षः सन् अपि अजन्यः जन्मादिविषयरहितः, तथा विकारपरिणामादिदोषविमुक्तः, यश्च अमर्त्यः मरणादिरहितः सन् केवलं सद्रूपः, यः स्वयं एक एव सन् विश्वथा सर्वथा सर्वभावरूपेण राजते प्रकाशते, यश्च पुनः वैश्वरूप्येण योगेन विततः सन् स्वराट् स्वयम्प्रकाश:, सम्राट् सम्यक्तया नित्यं राजमानः सार्वभौमः, विराट् विशेषेण वैविध्येन विश्वतोरूपेण च प्रकाशमानः, विभुः विश्वव्यापकः, प्रभुः विश्वस्य अधिपति, इत्येवंः रूपेण विभूतियोगेन स्वतः सिद्धोऽस्ति, तं इन्द्रमेव पारमैश्वर्यपूर्णं परमं पुरुषं सर्वान्तरात्मानं शं गमध्यै कल्याणं प्राप्तुं विश्वकल्याणार्थं वृणे शरण्यतया प्राप्नोमीति ||