________________
छन्दोदर्शनम्
211
अन्वयभाष्यम् । यः परमः पुरुषः प्रचेतनः आत्मा भूते अस्मिन् इह प्रत्यक्षसिद्धे विश्वस्मिन् अचेतने वस्तुजाते, उत अपि च परोक्षसिद्धे दैवते परमात्मनि च अधि अधिष्ठितः केवलं चैतन्यसत्त्वः, तथा अस्मिन् अपरोक्षसिद्धे प्रत्यञ्चि आन्तरे जीवे जीवात्मनि अधि अध्यात्मसत्त्वे सचेतने अन्तः अन्तगत्मनि, य: परमः सत्येन सत्यैकतत्त्वेन त्रिधा-इत् त्रेधाभावेनैव तत्त्वत्रयात्मकेन सर्वात्मभावेन अन्तः सर्वत्रापि समः एकरसेन पूर्णः सन् राजते स्वयमेव प्रकाशते, तत् परमं सत्यं इह सर्वत्रापि नित्यं सर्वदेव वरीवति नैरन्तर्येण प्रतितिष्ठति, नित्यसिद्धमिति ॥
COMMENTARY-SUMMARY TRANSLATION He is the Supreme Purusha and the Soul of all and is full of intelligent energy. In this visible universe which is inert and in the invisible creator, as well as in the Atmå, the Purusha is active in the form of intelligent energy. Likewise, He is in this inner individual soul who is active. He is the One Supreme. By the power of Truth, He shines uniformly in all beings. He is full of only one essence. Truth supreme is existing eternally and everywhere.
षष्ठी ऋक् । सरस्वतीयं ब्रह्मणस्पतिनाऽन्तः प्रत्यञ्चि ज्योतिषा स्वरेण रसैन ॥ छन्दसा स्फुरति प्रति चेतनेन
विश्वस्यैव जीवसे परि संविदै ॥ ६ ॥ पदपाठ :- सरस्वती । इयम् । ब्रह्मणः । पर्तना । अन्तरिति ।
प्रत्यञ्चि । ज्योतिषा । स्वरण । रसैन ॥ छन्दसा । स्फुरति । प्रति । चेतनेन ।
विश्वस्य । एव । जीवसे । परि । सम्ऽविदे ॥ This Sarasvati, with Brahmanaspati vibrates in the inner soul, with her light, her sound, and her joyful essence and activity. She shines by her light to give all-round knowledge to all in the universe.
अन्वयभाष्यम्। ___ इयं साक्षाद् ब्रह्मरूपा मन्त्रात्मिका सरस्वती परा वाग् दिव्या स्वयं देवतात्मैव सती ब्रह्मणस्पतिना तेन निजेन परमेण पुरुषेण सह प्रत्यञ्चि प्रत्यगात्मनि अन्त: अन्तर्मुखे ।