________________
206
छन्दोदर्शनम्
अथ तृतीयेऽनुवाके षष्ठं ब्रह्मणस्पतिसूक्तम् |
अनुवाकः ३ । सूक्तम् ६ | ऋचः १-८
ब्रह्मणस्पते त्वं वाचा अष्टौ देवरातो वैश्वामित्रः, ब्रह्मणस्पतिः, जगती | अयुजः अन्त्या च ब्राह्मणस्पत्याः, युजः तिस्रः सारस्वता वा ॥
Now the Brahmanaspati Sukta, Sixth in the third Anuvaka Section III, Hymn 6, Riks 1-8 - BRAHMANASPATI.
This Hymn beginning with "Brahmanaspate tvam vacha", contains eight Ṛks. Daivarăta Vaiśvāmitra is the Ṛshi. Brahmanaspati is the god and Jagati is the metre.
(The second, fourth and sixth mantras are addressed to Sarasvati and the rest to Brahmaṇaspati.)
अथ प्रथमा ऋक् ।
ब्रह्मणस्पते त्वं वाचाऽन्तस्तपस्यन् परया चिता विश्वमा विश्वकथै || छन्द॑सा स्वं सत्त्वं सोऽन्व॑भव॒द् रसैन
वाचा ने समात्मा ब्रह्म॑ण॒स्पति॑ः ॥ १ ॥
पदपाठ :- ब्रह्मणः । पते । त्वम् । वाचा । अन्तरिति । तपस्यन् । या । चिर्ता । विश्वम् | आविः । चकर्थे ॥
1
छन्द॑सा । स्वम् । स॒त्त्वम् । सः । अनुं । अभवत् । रसेन । वाचा | नेमस आत्मा । ब्रह्मणः । पतिः |
Oh Brahmaṇaspati ! by performing tapas within yourself by the help of Vak and also by supreme consciousness you created this universe. Brahmanaspati enjoyed His own power through the essence of metre or mantras. Brahmanaspati is, as it were, the other half of Vak.
अन्वयभाष्यम् ।
हे ब्रह्मणस्पते ! त्वं वाचा निजया परया वाचकशक्त्या अन्तः आत्मनि लीनया तथा परया परासञ्ज्ञया सह तपस्यन् मौनेन निर्विषयसत्त्वेन कैवल्येन प्रतपन्, तपोयज्ञमनुतिष्ठन् चिता परया चेतनया विश्व इदं नामरूपात्मकं जगत् सर्वं आविश्वकर्थ सूक्ष्मतमचैतन्यबीजरूपेण आत्मनि अन्तर्हितं तद् विश्वं बहिरुत्ससर्जिथेति भावः ॥ तेन आत्मनः विश्वरूपसत्त्वस्य प्रत्यक्षीकरणोदितेन रसेन संविदानन्दात्मकेन छन्दसा प्रेमसत्त्वेन तन्निबन्धनात्मकेन