________________
छन्दोदर्शनम्
as having three steps. Vak referred to here is pară, paśyanti and madhyamā. These are the three stages of the power of speech, the fourth is the actual word called Vaikhari. This is a speciality.
अष्टमी ऋक् ।
पदपाठ :
ब्रह्मणस्पतिः करणैस्त्रिभिरन्तः
विकर्मेण कार्मेन चिताऽऽत्म ||
'वैश्वानरेण तेजसाऽऽत्मना प्रज्ञेन
चतुष्पात् स पुरुषोऽयं साकं वाचा ॥ ८ ॥
ब्रह्मणः । पतिः । करणैः । त्रिभिः । अन्तरिति । सम्ऽविदा॑ । कर्म॑णा । कामे॑न । चिर्ता । आत्मनि॑ ॥
1
वैश्वान॒रेण॑ । तेज॑सा । आत्मनी । प्रज्ञेन॑ ।
1
चर्तुः ऽपात् । सः । पुरु॑षः । अयम् । साकम् । वाचा ।।
195
Brahmanaspati, in his own soul, invested the three karanas, namely Vak, Prāṇa and Manas which are already with knowledge, will and consciousness, with the three stages of consciousness, vaiśhvanara (normal consciousness), tejas (dream consciousness ) and Sushupti (sleep consciousness). That is the Purusha with four steps. He is one with Vak (the fourth step is Turiya mentioned in the next mantra).
अन्वयभाष्यम् |
सः ब्रह्मणस्पतिः सर्वेषां अन्तः शरीरे प्रत्यगात्मनि त्रिभिः करणैः वाक्-प्राण-मनःस्वरूपैः तच्छक्तिभिश्च संविदा ज्ञानात्मिकया क्रियया प्रत्यक्षकृतिरूपया कामेन इच्छात्मिकया सङ्कल्प-भावनादिसत्त्वया चिता परया चैतन्यात्मिकया च सह वैश्वानरेण स्थूलशरीराभिमानिना जाग्रतिसत्त्वेन, तेजसा तैजसात्मना सूक्ष्मशरीराभिमानिना स्वप्नसत्त्वेन, प्रज्ञेन प्राज्ञेन कारणशरीराभिमानिना सुषुप्तिसत्त्वेन च सङ्गतः सन् विदा परात्मिकया चेतनया, वाचा निजया चतुष्पद्या परा-पश्यन्ती- मध्यमा वैखरी " इति च तन्त्रान्तरप्रसिद्धया, तथा "ॐ भूर्भुवः स्वः" इति ( आर्षया ) प्रणवव्याहृतिरूपया च छन्दोमय्या च वेदचतुष्टयात्मिकया परया वाचा सह प्रपूर्णः सोऽयं पुरुषः सर्वान्तरात्मा चतुष्पात् चतुर्भिः सत्त्वे: सम्पन्नः इति सम्भाव्यताम् ॥ अत्र सर्वत्रापि यद् यत् स्वरूपं तत्त्वं च पुरुषस्य सम तत् सर्वमपि तत्पराशक्तेः वाग्देवतायाः अपि तत्समानमेवेति ज्ञेयम्, तथा यद्यद् वाचो देव्या: तात्विकं रूपं उच्यते तत् सर्वं पुरुषस्य ब्रह्मणस्पतेरपि समानसत्त्वेन संवेद्यम् इति सङ्केतः ॥
(6