________________
188
छन्दोद नम् अथ तृतीयेऽनुवाके चतुर्थ ब्रह्मणस्पतिसूक्तम् |
___अनुवाकः ३ । सूक्तम् ४ | ऋचः १-९ । ब्रह्मणस्पतिज्योतिषा यत् नव, देवरातो वैश्वामित्रः, ब्रह्मणस्पतिः, जगती ।
Now the Brahmanaspati Sukta, Fourth in Third Anuvaka
Section III, Hymn 4, Riks 1-9 - BRAHMANASPATI. This hymn beginning with “Brahmaṇaspatirjyotisha yat” contains nine Rks. Daivarăta Vaišvamitra is the Rshi. Brahmaṇaspati is the god and the metre is Jagati.
अथ प्रथमा ऋक् । ब्रह्मणस्पतिज्योतिषा यत् परमे व्योमन्यग्रे प्रचेतनं निदधे पदम् ॥ अमात्र तत् परमं पूर्णमपदं
स एकपात् पुरुषोऽयं साकं वाचा ॥ १ ॥ पदपाठ :- ब्रह्मणः । पति ः। ज्योतिषा | यत् । परमे।।
विऽओमनि । अप्रै। प्रऽचेतनम् । नि । दधे । पदम् ॥ अमात्रम् । तत् । परमम् । पूर्णम् । अपदम् । सः। एकऽपात् । पुरुषः । अयम् । साकम् । वाचा ॥
Brahmanaspati (the Lord of Väk) first established in the infinite sky his foot in the form of primal energy by the power of his light. That step was full and mighty but it could not be measured and was without any divisions. That was the indivisible Purusha united as one with Väk or the power of speech.
अन्वयभाष्यम्। सः ब्रह्मणस्पतिः वाचः अधिपतिः ज्योतिषा निजेन चैतन्यज्योतिःसत्त्वेन अग्रे प्रथमत: विश्वविसृष्टेरपि पूर्वं परमे व्योमनि अस्माद् भौताकाशादपि परमस्मिन् श्रेष्ठे अधिष्ठाने यत् प्रचेतनं केवलं प्रकृष्ट चेतनात्मकं पदं निदधे विश्वास्पदीभूतं प्रतिष्ठापयामास- आत्मनः अधिष्ठानं सम्भावयामासेति यावत् , तदेव परम पदं अमात्रं मानादिविरहितम् , अतिमात्रम् , अत एव तत् पूर्णम् न्यूनातिरेकादिसर्वविशेषविमुक्तं, अपदं स्थानादिकल्पनानहँ भवति, तेन प्रचेतनेन पदेन सः एकपात् इति सङ्केतितः, तथा तत्सज्ञया प्रतिबोधितः सः परमः