________________
छन्दोदर्शनम्
अन्वयभाष्यम् |
हे भगवति ! त्वं सरस्वती स्वयं रसात्मा रसदेवता च ब्रह्मजाया ब्रह्मसती निर्गुणस्य निर्विषस्यापि परब्रह्मणः पत्नीव स्थिता, अत एव त्वं प्रत्यक्षं ब्रह्मैव भवसि, तदर्धात्मकत्वात्, तेन ब्रह्मणा सह साम्ना रसेन सामरस्ययोगेन ते तव ब्रह्मणस्पतेः प्रत्यक्षब्रह्मणः स्वस्यैव अधिपतेः तस्य परमपुरुषस्य त्वत्पतेः योगेन परमानन्दरससत्त्वं यत् खलु त्वं अन्वभवः अनुभूतवती तं स्वानुभूतं रसं परमस्य आत्मनः सद्रसं संविद्रसं वाग्रसं च निजं मातेवसुतं इत्यध्याहियते सामर्थ्यात् त्वत्सुतं पुत्रवत् संवृत्तं मां इमं पायय धापय, यतः सा त्वं वागेव सर्वस्यापि पुरुषस्य माता जननी, परमपुरुषस्य च मात्री प्रमाणभूतेति ||
,
150
COMMENTARY-SUMMARY TRANSLATION
Oh Venerable one, you are Sarasvati, the essence of delight. As such you are the wife of Brahma who is himself attributeless but all delight. You are evidently Brahma, the visible form of reality. You are His equal by being identical with Him in happiness. By being united with Brahma who is your lord, you experience the same supreme bliss as He. Like a mother, kindly feed me as if I were your son. Vak is the supreme measure of the perfect Purusha.
पदपाठ :
द्वितीया ऋक् । सर॑स्वती॒ त्वं स॒ती ब्रह्मयोगेन
य॑य॒ प्रापि॑वो॒ रस॑ ब्रह्मणस्पतैः ||
मातेव मां रसेनाप्ययय
वाग् विदा प॑रमा पुरु॑षस्य माता ॥ २ ॥ सर॑स्वती । त्त्रम् । सती । ब्रह्मयोगेन ।
यम्ऽर्यम् । प्र । अपि॑िबः । रस॑म् । ब्रह्म॑णः । पतैः ॥ मा॒ताऽइ॑व । माम् । रसैन । आऽप्यायय । स्वेन॑ ।
वाक् । विदा | परमा । पुरुषस्य । माता ||
Oh Sarasvati! you are in communion with Brahma himself, and as such, you have drunk deep of the delight of Brahma. Verily like a mother, feed me to my full satisfaction with the delight which is now yours. Vak is the measure and the mother of the Supreme Purusha in virtue of having the power of intelligence.
अन्वयभाष्यम् ।
हे भगवति ! त्वं सरस्वती स्वयं रसवती शान्त्यानन्दादिरसमयी तथा प्रत्यक्षं ब्रह्मैव सती योगेन परमेण ब्रह्मणा तादात्म्येन, ब्रह्मणस्पतेः तस्य यंयं रसं प्रापिब: आनन्दादिरसं