________________
छन्दोदर्शनम्
143
स्वदितं भक्षितं आस्वादितं सर्वं रसं जिह्वया वाचा रसनया सहयोगेन अनु वक्षि तत्तद्रसानुभवेन सिद्धं रसज्ञानं अनुवदसि माधुर्यादिगुणसत्त्वपूर्णम्, तस्मात् हे सरस्वति ! सा वागेव त्वं रसानामास्वादने तदनुवदने च विदा ज्ञानशक्त्या सिद्धा सती अधि अध्यात्मतत्त्वसिद्धं पूयं प्राचीनं सर्वानुभवसिद्धं मिथुन युगलीभूतमिति ॥
COMMENTARY—SUMMARY TRANSLATION Oh Venerable one, you are yourself the principle of taste (Rasa). You are residing in waters both in their subtle essence and in their physical form. You are one with the celestial essence of Varuņa (the god of waters). You are one with the tongue. Whatever the tongue tastes, you are able to utter in the form of words. Vāk, in the act of tasting and expressing it, is one with the tongue. This union is beginningless.
पञ्चमी ऋक् । सरस्वती त्वं मिता सोमेन सूर्यण नासां चेतसाऽन्वेष्यश्विभ्यां गन्धैः ॥ गन्धमेवानु वक्षि नासाभ्यां नातं
वाग विदा मिथुनं नासयोरधि पूर्व्यम् ॥ ५ ॥ पदपाठ :- सरस्वती । त्वम् । मिता। सोमैन । सूर्यण ।
नासाम् । चेतसा । अनुऽएपि । अश्विऽभ्याम् । गन्धैः ।। गन्धम् । एव । अनु । वक्षि । नासाभ्यां । घातम् । वाक् । विदा । मिथुनम् । नासंयोः । अधि । पूर्व्यम् ॥
Oh Sarasvati ! you are full of the power of Soma ( the moon-god) and Surya (the sun-god). With the help of the mind and the Asvins (i.e. the power of the Sun and the Moon ) you enter the nose with various odours. You express in words the odours which are smelt by the nose. Vāk on account of intelligence is one with the nostrils from the beginning.
अन्वयभाष्यम्। हे भगवति! त्वं सरस्वती स्वयं रसवती सती सोमेन दिव्येन रसात्मना सर्व रसाधिदेवतेन, तथा सूर्येण ज्योतिरात्मना सर्वतेजोऽधिदैवतेन च युक्ता च सती अश्विभ्यां सोमसूर्यरूपाभ्यां ज्योती-रसात्मकाभ्यां गन्धैश्च सह चेतसा सचेतनेन मनसा च नासां अन्वेषि घ्राणेन्द्रियं प्राप्नोषि, तद्विज्ञानसत्त्वेन, अत एव ताभ्यां नासाभ्यां घातं सर्वं सुगन्धि दुर्गन्धं च