________________
छन्दोदर्शनम
141
vital air ( Prana) and the external air ( Vayu). Therefore, whether the touch is from before or from behind, you are able to express the same in words. Vak certainly is one with the skin in the act of touching. Vak and the sense of touch in the living skin are identical.
तृतीया ऋक। सरस्वती त्वं तेजस्वती सरूपा तेजसा चक्षुरन्वेषि सं सूर्येण ॥ दृष्टमेवानु वक्षि सर्व सरूपं
वाग् विदा मिथुन चक्षुषोऽधि पूर्यम् ॥ ३ ॥ पदपाठ :- सरस्वती । त्वम् । तेजस्वती । सऽरूपा।
तेजसा । चक्षुः । अनुऽएर्षि । सम् । सूर्यण ॥ दृष्टम् । एव । अनु । वीक्ष । सर्वम् । सऽरूपम् ।
वाक् । विदा। मिथुनम् । चक्षुषः । अधि । पूर्व्यम् ॥ Oh Sarasvati ! you are full of brilliance and have a beautiful form. You enter the eye with the help of the light of the sun. You are able to express in words all that you see and all that has form. Vāk, on account of intelligence, is one with the eye from the beginning.
अन्वयभाष्यम् । हे भगवति ! त्वं सरस्वती स्वयं रसवती सती तेजसो योगेन सम्पन्ना तेजस्वती तेजोमयी इति प्रसिद्धाऽसि, “ तेजोमयी वाक् ," इति (छां. उ. ६) तदनुश्रवणम्, अतः त्वं सरूपा च सती सर्वेषां अन्तरात्मनि तेजसा स्वेन दिव्येन सूर्येण ज्योतिरात्मना सह संहिता च सती चक्षुः दृगिन्द्रियं समन्वेषि, अतः तेन चक्षुषा दृष्टं सर्वमपि वस्तुजातं अनु वक्षि वाचैव वाङ्मुखेन अनुवदसि, यत् खलु सत्यमित्युच्यते लोके वेदे च, यदिह चक्षुषा प्रत्यक्षं दृश्यते तदपि सत्यमित्येव ज्ञायते, "चक्षुर्वै सत्यम्, चक्षुर्वे विचक्षणम् विद्येनेन पश्यतीति" " तस्मात् पश्यन्तमाहुरद्राक्षीरिति सयदि अदर्शमित्याह तत् सत्यं भवति" इति च औपनिषद ब्राह्मणानुवचनम् (ऐ. ब्रा.), " चक्षुर्वै ब्रह्मेति० चक्षुषा वै सम्राट् पश्यन्तमाहुरद्राक्षीरिति, स आहाद्राक्षमिति तत् सत्यं भवति" इति (बृ. उ. ४-१-४)॥ तस्मात् सा वागेव रूपादिप्रतीक्षणे तदर्थानुवादे च चक्षुषा सह संसृष्टा सती तन्मिथुनत्वं प्राप्नोति, तदपि विदा ज्ञानशक्त्या योगेन अधिष्टितं पूयं प्राचीनं अध्यात्मतत्त्वसिद्धं भवति । एतेन वाक्चक्षुषोः मिथुनत्वं गम्यते ।