________________
छन्दोदर्शनम्
127
अन्वयभाष्यम् । हे सरस्वति ! त्वं परमा सर्वेभ्योऽपि श्रेष्ठतमा परा देवता, तथा आत्मा च चेतनात्मिकाऽसि, सेयं प्रत्यक्षाऽपि प्रत्ययकावगम्येन परमेण परोक्षेण आत्मना व्यापकेन समा समाना असि, सा त्वं स्वे निजे परमे तस्मिन् आत्मनि चित्तिभिः चेतनाशक्तिभिः चेतनासंविद्-इच्छा( भावना )क्रियाशक्तिभिः सम्मिता समाना समन्विता असि, तस्मात् सा वागेव विदा ज्ञानशक्त्या संवित्प्रधाना सती हृदा तत्समभावेन युक्ता आत्मनः तस्य परमस्य मिथुनं अधिष्ठानात्मकं अरं पूर्णम्, आत्मना सह युगलीभूता सा परा वागिति ॥
COMMENTARY_SUMMARY TRANSLATION Oh Sarasvati ! you are the greatest God. Though manifest, you are one with the Atman who is invisible but who pervades everything. You are replete with the power of animation. The powers are Chetana (animation), Samvid (consciousness ), Ichha (feeling of desire), and Kriya (power to do). Vak is firmly rooted in the Atman and is the source of strength.
षष्ठी ऋक् । सरस्वति त्वं परमं पूरुषं तमात्मानं स्वं स्वयमेकमेव सन्तम् ॥ सुषुवे या बहुधा प्रचोदिताsत्मना
वाग विदा मिथुनं हृदाssत्मनोऽध्यरम् ॥ ६ ॥ पदपाठ :- सरस्वति । त्वम् । परमम् । पूरुषम् । तम् ।।
स्वम् । आत्मानम् । स्वयम् । एकम् । एव । सन्तम् ।। सुसुवे । या । बहुधा । प्रऽचोदिता । आत्मना ।
वाक् । विदा। मिथुनम् । हृदा । आत्मनः । अधि । अरम् ॥ Oh Sarasvati ! being inspired by the Atman you manifested the Purusha (the supreme person ) in manifold forms; you manifested the Purusha who is existing independently and who is one without a second. Oh Vak, by your power of consciousness, you are identified with the heart like a veritable couple.
अन्वयभाष्यम् । हे सरस्वति ! त्वं तं परमं परोक्षसिद्धं पूरुषं स्वं स्वीयं आत्मानं स्वयं स्वेन रुपेण सत्त्वेन च ऐकमेव सन्तं या वाक् तेनैव आत्मना प्रेरिता सती तं बहुधा भावेन सुषुवे