________________
106
छन्दोदर्शनम
पदपाठः- सरस्वति । त्वम् । प्रतिऽस्था । विश्वस्य । इह ।
नाम्ना । एव । वाचा । शिष्यते । विश्वम् । परि ॥ ज्योतिषा। त्वत् । उत् । एति । तत् । वाचः। पुनरिति ।
वाक् । विदा । वरम् । ब्रह्म । संविदः । योनिः॥ Oh Sarasvati ! you are the foundation or substratum of this universe. Evidently, it is in the form of words that the universe remains in a latent form (even after physical destruction ). The universe again springs forth from the word by the power of your intelligence. Oh Vàk, you by your intelligence are Brahma and the source of all knowledge.
अन्वयभाष्यम्। हे सरस्वति ! त्वं विश्वस्यास्य जगतः प्रतिष्ठा आस्पदीभूता, तस्मात् सर्वमेतत् जगत् अन्ततः नाम्ना स्व-स्व-सज्ञात्मिकया वाचैव परिशिष्यते, विश्वस्य उपसंहृतावपि वागेव अवशिष्यते, यत् खलु नामशेषत्वमभ्युपैतीति प्रसिद्धम् , अथ पुनः प्रजायमानं सत् तदिदं विश्वं त्वत्त: वाच एव उदेति, ज्योतिषा ज्योतिर्मुखेनेति, तस्मात् सा वागेव विदा वरणीयं ब्रह्म, तथा सवस्या अपि संविदः प्रसवित्री योनिः मातृस्थानीयेति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are the substratum of this universe, being responsible for it. Therefore, all this universe, even after destruction, continues in a subtle form as word, in the form of a symbol. Even when the universe ceases to exist, Våk survives, which means that finally everything lives by name only. Again this whole universe rises from you, the word, by the power of light. Vak is certainly the Brahma, the source of knowledge.
एकादशी ऋक् । सरस्यति त्वं ब्रह्म सतीह साक्षाद् अमृतं तत् सत्यं पूर्णमक्षरं परम् || अक्षरं त्वत् क्षरति ब्रह्म विश्वा
वाक् परमा ज्योतिर्विश्वस्य दर्शयत् ॥ ११ ॥ पदपाठ :- सरस्वति । त्वम् । ब्रह्म । सती । इह । साक्षात् ।
अमृतम् । तत् । सत्यम् । पूर्णम् । अक्षरम् । परम् ॥ अक्षरम् । त्वत् । क्षरति । ब्रह्म । विश्वऽथा । वाक् । परमा । ज्योतिः। विश्वस्य । दर्शयत् ॥