________________
छन्दोदर्शनम्
97
अथ द्वितीयेऽनुवाके षष्ठं सरस्वतीसूक्तम् ।
अनुवाकः २ । सूक्तम् ६ । ऋचः १-११ । सरस्वति त्वं छन्दसा एकादश, देवरातो वैश्वामित्रः, सरस्वती, जगती ।
Now the Sarasvati Sukta, sixth in Second Anuvaka
Section II, Hymn 6, Riks 1-11 - SARASVATI This Hymn beginning with 'Sarasvati tvam Chhandasa' contains eleven Řks. Daivarāta Vaiśvāmitra is the Rshi, Sarasvati is the goddess and the metre is Jagati.
अथ प्रथमा ऋक् । सरस्वति त्वं छन्दसा छन्दस्वती स्वरवर्ती साम्ना तेजसा तेजस्वती ॥ ज्योतिरेवानु स्वरसिच्छन्दः परं
वाग् विदा वरं ब्रह्म संविदो योनिः ॥ १ ॥ पदपाठ:- सरस्वति । त्वम् । छन्दसा। छन्दस्वती।।
स्वरऽवती । साम्ना । तेजसा । तेजस्वती ॥ ज्योतिः। एव । अनु । स्वरसि । छन्दः । परम् ।
वाक् । विदा । वरम् । ब्रह्म । सम्ऽविदः । योनिः॥ Oh Sarasvati ! you are one with poetical metres and so you are full of metrical form. Being one with the Sāma (Sama Veda ) sounds, you are full of songs. You are brilliant, being one with brilliance. Through the use of metre, you are as it were giving expression to the light of knowledge. Oh Vak, by your knowledge, you are Brahma and the very source of all knowledge.
अन्वयभाष्यम् । हे सरस्वति ! त्वं छन्दसा गायत्रादिना संहिता सती छन्दस्वती मन्त्रात्मिका भवसि, तथा स्वयं नित्यसिद्धा इति भावः, साम्ना सामस्वरेण स्वरवती इति प्रसिद्धा, तेजसा युक्ता तेजस्वती ज्यीतिमयी, अतः तत् ज्योतिरेव अनुसृत्य छन्दः गायत्रादिकं अनुस्वरसि, तथैव तत् छन्दः अनुसृत्य तेन छन्दोमुखेन तत् परं ज्योतिरपि अनु स्वरसि इति भावः, तस्मात् हे वाक् ! सा त्वं विदा ज्ञानेन वरं वरणीयं श्रेष्ठं ब्रह्म, अतः सर्वस्याः संविदः योनिः कारणभूता प्रसवित्री वागेव भवतीति || CD-13