________________
74
छन्दोदर्शनम
पञ्चमी ऋक् । सरस्वति त्वं प्रतिरूपा विश्वस्य विश्वं यदुञ्चरसि ज्योतिषा चिता ॥ विश्वमेव वाचा प्रति भासय॑से
तावी वाक् प्रपूर्णा यावद् ब्रह्म परम् ॥ ५ ॥ पदपाठः- सरस्वति । त्वम् । प्रतिऽरूपा । विश्वस्य ।
विश्वम् । यत् । उत्ऽचरसि । ज्योतिषा । चिता ॥ विश्वम् । एव । वाचा । प्रति । भासयसे ।
तावती । वाक् । प्रऽपूर्णा । यावत् । ब्रह्म । परम् ॥ Oh Sarasvati! you are as it were, the universe itself. You speak of this universe with the light of knowledge. And you illuminate this universe with words. You are as full and perfect as Brahma.
अन्वयभाष्यम्। हे सरस्वति ! त्वं विश्वस्य अस्य जगत: अपि प्रतिरूपा तत्तन्नामात्मना सन्तता, स्वेन ज्योतिषा सरूपेण चिता चेतनाशक्त्या यत् खलु विश्व एतत् उच्चरसि सर्वेषां प्रादुर्भावार्थम्, तेन स्वेन वाङ्मुखेनैव विश्वं इदं प्रतिभासयसे प्रकाशयसि, वाचैव विश्वं प्रकाशते इति भावः । तस्मात् तत् परं ब्रह्म वस्तु यावत् पूर्ण तावत्येव तस्य वागपि सर्वात्मना पूर्णा तादात्म्ययोगेनेति ॥
COMMENTARY-SUMMARY TRANSLATION Oh Sarasvati ! you are as it were the second universe. You are invested with the power of words. You express this world in words and with your words you make the world known. “The world is known by words." Väk is as perfect and full as Brahma, since she is identified with Him.
षष्ठी ऋक् | सरस्वति त्वं सती विश्वरूपाऽऽत्मन् विश्वतस्तपसा तेजसाऽऽतता ॥ आत्मानमेवान्विमं नदसि प्रति तावी वाक् पूर्णा यावद् ब्रह्म परम् ॥ ६ ॥