________________
पञ्चमोद्देशः।
अथोभयच्छन्दः।
विसमे छकला समे वसू । वेयालीयं रोलगा तओ। नट्ठसु छलहू निरन्तरा । दुसुवि कला न समा पराणुगा ॥१॥ [विषमे षट्कलाः समे वसवः । वैतालीयं रो लगौ ततः।
नाष्टसु षट् लघवो निरन्तराः । द्वयोरपि कला न समाः परानुगाः ॥ १॥] विषमयोः पादयोः षण्मात्राः समयोरष्टौ इति मात्राच्छन्दोंशः ततो द्वयोरपि रगणो लघुर्गुरुः इति वर्णच्छन्दोंशः । इदं वैतालीयम् । अत्रापवादः। समाहिकलास्वष्टसु षट् लघवः संतता न स्युनच द्वयोरपि विषयसमपादयोः समा कला परानुगा सर्वांहिषु समो लघुः परेण लघुना सह गुरुर्न कार्य इत्यर्थः । अत्रौजांहिषट्कलानां प्रस्तारे त्रयोदश भेदास्तेष्टाविहासाका ग्राह्या यथा। स्थापना। ॥ साकास्तु पञ्चामी यथा । स्थापना ॥ पराश्रितसमकलाविकल्पाः साका इतरे त्वसाका इति पूज्याम्नायः । युक्पादाष्टमात्राणां प्रस्तारे चतुस्त्रिंशद्भेदास्तेष्वसाका षोडश । षोडशभ्योपि संततषट्लघवस्त्रयोपनीयन्ते । ततो जातास्त्रयोदश । तेत्र ग्राह्याः । स्थापना। साकास्त्वष्टादश । ते त्याज्याः स्थापना ।
तं चिय रगणंतसंठिए ये । ओवच्छंदसयं वयंति बुट्टा ॥२॥
[तदेव रगणान्तसंस्थिते ये । औपच्छन्दसकं वदन्ति वृद्धाः ॥२॥] तदेव वैती(ता)लीयमोजयोः षड्भ्यो युजोरष्टभ्यः कलाभ्यः परस्य [र]गणस्यान्तसंस्थिते यगणे औपच्छन्दसकं वृद्धा वदन्ति ॥ २॥
आवायलिया भगणेणं । गुरुजुयलेण य अंतगएणं ॥ ३ ॥ [आपातलिका भगणेन । गुरुयुगलेन चान्तगतेन ॥ ३ ॥] वैतालीयमेवाहिद्वये षडष्टकलाभ्यो भगणेन गुरुभ्यां चापातलिका ॥ ३ ॥ समपा[य] कलातिगंतगो । जइ गुरू उ ता होइ पच्चिया ॥४॥
[समपादकलात्रिकान्तगो । यदि गुरुः पुनर्भवति प्राच्यिका ॥ ४ ॥] समपादाष्टमात्रासु तिसृणां कलानामन्तगतो गुरुः पुनश्चेद्विषमयोस्तु प्राग्वच्चेत्तत्स्यात् प्राच्यवृत्तिभीमादिवत् प्रायिका । सा त्रिधा वैतालीयप्रायिका औपच्छन्दसप्रायिका आपातलिकाप्रायिका॥४॥
उइच्चिया सा पवुच्चए । जहि समेसु मुहलप्परो गुरू ॥ ५॥ [उदीज्यिका सा प्रोग्यते । यत्रासमयोः मुखलपरो गुरूः ॥ ५॥]
१ I have dropped the graphical presentation. २ विसमे ?