SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ १. ३०.१-६; टी. प. ७१-७४] सवृत्तिकः कविदर्पणः 'कुड्डालह'त्ति । शीघ्रादित्वात् । कौतुकस्य कुटुं तत आलश्च ॥ ३०.४ ॥ उदा०-दलि महियलु रिलंतह । तुह चल्लंतह । दीसहि जय जयवीर। कट्ठ अमित्तह चित्तिहिं । तिण पुण दंतिहिं । गहिणिनयणिहिं नीर ॥३०.५॥ [दलेन महीतलमलंकुर्वाणस्य । तव चलतः । दृश्यते जय जगद्वीर ॥ कष्टा अमित्राणां चित्ते । तृणं पुनर्दन्ते । गृहिणीनयनेषु नीरम् ॥ ३०.५ ॥] 'कट्ठति काष्ठानि कष्टानि च ॥ ३०.५॥ उदा०-दीसहि सुंड गयाणणि । कव्वइ कइयणि । जूयचडण सिरि निब्भर । मारण जइपरिपा(वा)रइ । रज्जि तहारइ । कुमरनरिंद किवायर ॥ ३०.६ ॥* [दृश्यते शुण्डा गजानने । काव्यानि कविजने । यूकापतनं शिरसि निर्भरम् ॥ मारणं यतिपरिवारे (?) । राज्ये तव । कुमारनरेन्द्र कृपाकर ॥ ३०.६ ॥] 'सुंड'त्ति मदिराः करिकराश्च । 'कव 'त्ति कव्यानि काव्यानि च। द्यूतपतनानि यूकापतनानि च । दिङ्मात्रमिदं घत्ताषट्कम् । एवं सप्तकलाद्यैः सप्तदशकलान्तैः पादैस्तुल्यैरतुल्यैस्तुल्यातुल्यैर्वा त्रिभिस्त्रिभिर्बद्धार्धद्वयानेकधा विदग्धगोष्टीगरिष्ठा घत्ता । किंच तृतीयषष्ठपादयोर्दशादयो मात्रा एकैकवृद्धया यावत्सप्तदश; शेषानिचतुष्के तु सप्तैव यत्र सा षट्पदजाति म षट्पदी । दशादीनां सप्तदशान्तानामष्टविधत्वादष्टधा । सप्तस्थाने अष्टमात्राश्चेत्तदा सैवोपजाति म षट्पदी पूर्ववदष्टधा । अष्टस्थाने नव चेत् तदावजाति म षट्पदी प्राग्वदष्टधा । एवं षट्पदजात्युपजात्यवजातीनां प्रत्येकमष्टविधत्वाच्चतुर्विंशतिधा षट्पदी । यदवोचच्छन्दःकन्दल्याम् जीइ कलाउ दसाई सत्तरसंता य सिहिरसपएसु । सेसेसु सत्त छपई सा छपई नाम अहविहा ॥ ७१ ॥ इय अहहि उवजाई सत्तहाणे कलाहि अट्टविहा । नवहि पुणो अवजाई एवं चउवीसहा छपई ॥ ७२ ॥ [यस्याः कलाः दशादयः सप्तदशान्ताश्च शिखिरसपदयोः । शेषेसु सप्त षट्पदी सा षट्पदी नामाष्टविधा ॥ ७१ ।। इति अष्टभिरुपजाति: सप्तस्थाने कलाभिरष्टविधा । नवभिः पुनरवजातिः एवं चतुर्विंशतिविधा षट्पदी ।। ७२ ॥ ] चतुष्पदीद्विपद्यावपि ध्रुवाध्रुवकघत्तासंज्ञे ज्ञेये । ते अपि संधिमुखे कडवकान्ते ध्रुवं कार्ये । केवलं कडवकान्ते चतुष्पद्येव छडणिकाख्या न द्विपदी । यच्छन्दःकन्दली कडवयनिवहो संधी पद्धडियाईहिं चउहिं पुण कडवं । संधिमुहे कडवंते धुवा च धुवयं च घत्ता वा ॥ ७३ ॥ सा तिविहा छपई चउपई य दुपई य तासु पुण दुन्नि । छचउप्पईओ कडवयनिहणे छड्डुणियनामावि ॥ ७४ ।। * Both 30.5 and 30.6 are fine examples of श्लिष्टपरिसंख्या .
SR No.023461
Book Titlekavidarpan
Original Sutra AuthorN/A
AuthorH D Velankar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1962
Total Pages230
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy