________________
प. २५.२-३१; टी० ५० ६६-६८] सवृत्तिकः कविदर्पणः
द्वितीयतुर्ययोष्टद्विकं चश्वेयं त्रिपादरचितपूर्वार्धा ।
तृतीयपञ्चमपदानुप्रासा मात्रा प्रचुरभेदा ॥ २८ ॥] प्रथमतृतीयपञ्चमेष्वंहिषु द्वौ पञ्चमात्रावेकश्चतुर्मात्र एको लघुः केवलं तृतीयपश्चमपादयो? चतुर्मात्रौ तौ मध्यकावेव । द्वितीयचतुर्थपादयोौ चतुर्मात्रावेकस्त्रिमात्र एवं पञ्चपादा यस्यामियं पादत्रयकृतपूर्वार्धा अर्थात्पादद्वयकृतोत्तरार्धा तृतीयपञ्चमपादयोः सानुप्रासा प्रचुरभेदा मात्रा नाम पञ्चपदी ॥ २७ ॥ २८ ॥ ___ उदा०-महमहूसवमुहि वित्तु मत्त । फुलंधुयभंगुरिहि । गुंदिभरिहि मायंद झंपिय ।
पियमाहवि मुणिमुणिवि । मुणिवि किंपि झाणाउ कंपिय ॥ २८.१ ॥ [मत्ता] । [मधुमधूत्सवमुखे वृत्तो मत्त- । भृङ्गभङ्गुरै- । मअरीभरैर्माकन्द आच्छादितः ॥
प्रियमाधव्या मुणमुणाय्य । मुनयः किमपि ध्यानात्कम्पिताः ।। २८.१ ॥] . 'गुदि 'त्ति मञ्जरी । 'पियमाहवि 'त्ति कोकिला ॥ 'पउरभेय'त्ति भणनान्मत्तवालिका १ मधुकरिका २ मत्तविलासिनी ३ मत्तकरिणी ४ बहुरूपेति ५ संज्ञा अस्या भेदा ज्ञेयाः । यदवोचच्छन्दःकन्दल्याम
मत्तच्चिय उच्चइ मत्तवालिया दुइयतुरियचरणेसु । पढमटगणंमि तगणे कयंमि जुगवं अजुगवं वा ॥ ६६ ॥ समचरणणिहणटगणे ते युज्य कमेण मत्तमहुअरिया । [इय] मत्तविलासिनिया सिहिसरपयमुहदुतेसु दुटा ॥ ६७ ॥ मत्तकरिणीवि एवं सिहिसरपाएसु टंमि जइ तगणो । एयासिं मत्ताईण संकरो होइ बहुरूवा ॥ ६८ ॥
[मात्रैवोच्यते मत्तबालिका द्वितीयतुरीयचरणयोः । प्रथमटगणे तगणे कृते युगपदयुगपद्वा ॥६६॥ समचरणनिधनटगणे तौ योजयित्वा क्रमेण मत्तमधुकरिका । इति मत्तविलासिनी शिखिशरपदमुखद्वितयोः विटौ ॥ ६७ ॥ मत्तकरिण्यप्येवं शिखिशरपादयोः टे यदि तगणो ।
एतासां मात्राणां संकरो भवति बहुरूपा ।। ६८ ॥] आसामुदाहरणानि ग्रन्थान्तराज्ज्ञेयानि । पञ्चपदीप्रकरणम् ॥ २८.१॥ अथ षट्पदी
दसअट्टतेरसहिं वा इह बारसअट्टतेरसहिं अहवा। अट्ठेगारसहिं व दसटएकारसहिं वावि ॥ २९ ॥ बारसअढेगारसहिं वा रविवसुरवि(वी)हिं य कलाहिं । तिसु तिसु पएसु कमसो दलजुयले बहुविहा पत्ता ॥ ३० ॥