________________
५० २३.३-२५.१; टी० ५० ६२-६५] सवृत्तिके कविदर्पणे
___ 'उक्केर 'त्ति उत्करः । 'वल्युत्करपर्यन्ताश्चर्ये वा' (हे० ८.१.५८)। तथा द्विपद्येव गुरुणैकेनाधिका आरनालम् । उपान्त्यलघुना पुनरूना कामलेखा । ते अप्येवमुदाहार्ये ॥ २४.२ ॥
रासावलयं पो अजटगणो पो तो य; वत्थुवयणे तु । पगणो अजटो मज्झकटगणो अजटो य पगणो य ॥२५॥ [रासावलयं पः अजटगणः पः तश्च; वस्तुवदने तु ।
पगणो अजटो मज्झकटगणो अजटश्च पगणश्च ॥ २५॥] ___ एकः षण्मात्र एको जगणरहितश्चतुर्मात्रः एकः षण्मात्र एकः पञ्चमात्रश्च रासावलयम् । वस्तुवदने त्वेकः षण्मात्र एको जगणरहितश्चतुर्मात्र एको मध्यकश्चतुर्मात्र एको जगणरहितश्चतुर्मात्र एकः षण्मात्रश्च । वस्तुकमित्यन्ये । लघुषोडशकाद् द्विद्विलघुवृद्धया चेदमेकचत्वारिंशद्विधम् । यदाह
वंसो वित्तो बालो बाहो वामो बलाहओ विंदो । विद्धो विसो विसालो विसारओ वासरो वेसो ॥ ६२ ॥ तुंगो रिंगो भिंगो भिंगारो भीसणो भवो भालो । भद्दो भग्गो भट्टो भीरू तत्तो भडो भसलो ॥६३ ॥ अलओ वलओ मलओ मंजीरो मयमयो मओ माणी। महणो मसिणो मउलो महो मुहो मइहवो मुहलो ॥ ६४ ॥ एए नामनिबद्धा चउवीसकला हवंति वत्थुवया । सोलहलहुआउ लहूहिं वढमाणेहिं दोदोहिं ॥ ६५ ॥ [एते नामनिबद्धाः चतुविंशतिकला भवन्ति वस्तुवदनाः ।
षोडशलघुकालघुभ्यां वर्धमानाभ्यां द्वाभ्यां द्वाभ्याम् ॥६५॥] रासावलयपूर्वार्धं वस्तुवदनकोत्तरार्धं यद्वा वस्तुवदनपूर्वार्ध रासावलयोत्तरार्धमिति द्विधापि संकीर्णाख्यं छन्दः ॥२५॥ उदा०-ढक्कपडहपडुपडिरवमुहरासावलउ
बहुबलबहलियहलवोलाउलसुरनिलउ । तुह आगमणु नियवि निव भयभिंभलनयणु
निय वि नियंबिणि चइवि पलाइउ वेरियणु ॥२५.१॥ [रासावलओ] । [ढक्कापटहपटुप्रतिरवमुखराशावलयं
बहुबलबहलितकलकलाकुलसुरनिलयम् । तवागमनं दृष्ट्वा नृप भयविह्वललोचन:
निजामपि नितम्बिनीं त्यक्त्वा पलायितो वैरिजनः ।। २५.१ ॥] 'मुहरासावलउ'त्ति मुखरितदिक्चक्रम् । 'हलवोलु 'त्ति कलकलः । 'नियवि 'त्ति दृष्ट्वा । 'नियवि 'त्ति निजा अपि ॥ २५.१॥