________________
द्वितीयो गुम्फः
[ २५ मन्दहाससौरभ भरप्रफुल्लनवमल्लिका ।
भातितरामबलेयमनेकवधूषु मतल्लिका ।। ८ ।। अथ चतुष्पदो'
या भवति चतुः कलतापरिपुष्कलगणसप्तकसुनिरुक्ता पुनरन्तविराजितपरमसभाजितविलसदेकगुरुयुक्ता ॥ त्रिंशत्कलपीना जगणविहीना विषमे भृशमभिरामा
सा जयति चतुष्पदिका कविसंसदि दिग्वसुरविसविरामा ।। ६ ॥ यथा-विधिशिवसुरनायकहृत्सुखदायककुशलविधायकनामा
परमप्रियराधामनसिजबाधाहरनवजलधरधामा । गुणगणविस्तारणपटुतरचारणजनसाधारणसामा।
स जयति निश्छद्मा मधुवनसद्मा यदुरसि पद्मा रामा ।। १० ।। अथ धत्ता
दशकलगणयुक्तं नदतु निरुक्तं वसुकलगणयुतमानयत ।
सत्रिकलं दशकलमुक्तासुविमलधत्तावृत्तं मानयत ।। ११ ।। इदं वृत्तं द्विपदमेव भवतीति संप्रदाय:यथा-सज्जनगणरञ्जन परमनिरञ्जन खलकुलगञ्जन चतुरतर ।
लोचनजितखञ्जन भवभयभञ्जन जय शुभसञ्जन कंसहर ।। १२ ।। अथ धत्तानन्दः
रुद्रकलागणयुक्तमथ सुनिरुक्तसप्तकलाकलितं कलय ।
त्र्यधिककलादशकेन सहितततेन धत्तानन्दं हृदि वलय ॥ १३ ॥ यथा-दानवदारण देव दुर्लभसेव कृतभवसागरसंतरण ।
जय जय भशमभिराम रघुवर राम सकलभक्तकामदचरण ॥१४॥ प्रथ षट्पदप्रकरणम् पूर्वं 'काव्यं' नामच्छन्द:
यस्य चरणे चतुर्विंशतिमात्राः, स्तास्वादौ एकादश द्विपथालक्षणाक्रान्ताः, चतुर्दशी कला लघुरेव । तदनन्तरं द्वौ चतुष्कलौ, तयोराद्यो जगणभिन्नः एकः, तदुत्तरं च द्वे कले मिश्रिते विशकलिते वा, तत्काव्यं' नाम छन्दः । चतुर्दश्यां कलायां यतिरपि कार्या, तदभावे तु 'चपला' काव्यं भवति । यथा-जय जय नन्दकुमार कमललोचन हृतशोचन __ जय जय दानवनिवहदलन भवतापविमोचन । १. 'चवपैया' छन्द:प्रभाकरः । २. 'रोला' (छन्द:प्रभाकरे)।