________________
वृत्तमुक्तावली
२२ ] सापि सर्वगुरुर्यथा
लोकालोकालोकी लोके लोके विलोकितालोकः ।
पायात् सायं प्रातर्मध्याह्नाद्भावितो भानुः ॥ ३४ ॥ सर्वलघुर्यथा
धरणिधरधरणभुजवर परिसरपरिलसितवलयसुरुचिरतर ।
प्रकटितरसमयविलसित भवजलनिधिमधुरविधुरुदयसि ॥ ३५ ॥ अथ विगाथाच्छन्दः । सर्वगुरुर्यथा
गोपीनेत्राम्भोजस्वच्छन्दानन्दसंदोहः ।
कल्याणं ते कुर्यात् कृष्णः कंसादिवैरिविध्वंसी ॥ ३६ ॥ सर्वलघुर्यथा
समुदितरसभरजलधर तडिदुपमितवसनरुचिसुरुचि ।
जय जय मधुमुरहर पुरहरपरिकलित दलितभवभवभय ॥ ३७ ॥ प्रथोद्गाथाछन्द:
यस्यामुभयोर्दलयोस्त्रिशन्मात्राः क्रमेण विधृताः स्युः ।
उद्गाथा सा ज्ञेया भुजङ्गनाथाऽऽननाननोद्गीता ॥ ३८ ॥ उदाहरणम्
लक्ष्मीनेत्रानन्दी मन्दीभूताखिलाघसंदोहः । श्रीगोपालः पायात् संसारायासराशिविध्वंसी ॥ ३६ ।। वजयुवतिनयनसुखकर मुखरुचिभरविजितसकलकलहिमकर ।
निजजननिवहमहिमकर जय जय रसभरितचरितसमुदयधर ॥ ४० ॥ प्रथ गाथिनी-सिहिनी लक्षणम्
पूर्वार्द्ध त्रिशत्स्युर्द्वात्रिंशत्स्युस्तथोत्तरार्द्धगताः ।
सा गाथिनीति बोध्या, तद्विपरीता नु खलु सिंहिनी भवति ॥ ४१ ॥ द्वयं यथा गाथिनी
राधाबाधाहारी भक्ताऽगाधातिहृत्कृपाऽऽधारः । - शोभापारावारः केलीकारः करोतु कामं कृष्णः ॥ ४२